मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 94, कुल 672 में से
संदर्भ में पढ़ें52 मानमेयरहस्यश्लोकवार्तिके अनादिनिधनं विष्णुं सर्वलोकमहेश्वरम् । लोकाध्यक्षं स्तुवन्नित्यं सर्वदुःखातिगो भवेत् ॥ सादृश्यादीश्वरध्यानं तदनुग्रहमूलतः । स्वात्मसाक्षात्कारहेतुरिति तद्योगदर्शनम् ॥ उपायस्सुकरस्सोऽयं शीघ्रं चापि फलप्रदः । केषांचित् क्षीणदोषाणां विश्वासोऽत्र महात्मनाम् । 4 स एव भक्तियोगस्स्यात् ज्ञानयोगोऽधुनोच्यते । चित्तवृत्तिनिरोधोऽसौ स्वसाक्षात्कारकारणम् ॥ आगमेनानुमानेन ध्यानाभ्यासवशेन च । त्रिधा प्रकल्पयन् प्रज्ञां लभते योगमुत्तमम् ॥ ध्यानाभ्यासरसश्चैषः धर्ममेघ इतीर्यते । परं प्रसंख्यानमेतत्पुंमात्रध्यानलक्षणम् ॥ ध्यानप्रकर्षपर्यन्तजा चिच्छायावती तु या । अविप्लवा विवेकोपलब्धिः मोक्षस्य कारणम् ॥ सा शुक्लकृष्णमुत्पाद्य धर्मं बन्धं विमोचयेत् । प्रकृष्टधर्मजो मोक्ष इति स्वायंभुवं मतम् ॥ अत्र कैश्चिद्धर्ममेघस्समाधिः पक्व उच्यते । तेन ज्ञानैकसाध्योऽसौ मोक्ष इत्येव तन्मतम् ॥ अयं तु परमो धर्मो यद्योगेनात्मदर्शनम् । इति स्मृतिवचस्तत्र प्रमाणं च प्रदर्श्यते ॥