मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 95, कुल 672 में से
संदर्भ में पढ़ेंप्रज्ञाप्रासादमारुह्य ह्यशोच्यश्शोचतो जनान् । भूमिष्ठानिव शैलस्थस्सर्वान् प्राज्ञोऽनुपश्यति ॥ ५ अधिकारस्स चित्तस्य स्थितिहेतुरुदीरितः । यः कृत्यशेषः तच्छून्यं चित्तं मूले विलीयते ॥ तस्य चित्तस्य विलयात्स्वस्वरूपे प्रतिष्ठितः । पुरुषः केवलो गौणी सा प्रतिप्रसवात्मिका ॥ संयोगाभाव एवासौ दृशेः कैवल्यमुच्यते । कृतकृत्यं ख्यातिपर्यवसानं चित्तचेष्टितम् ॥ यश्च नैरात्म्यसिद्धान्तो निर्वाणद्वारमुच्यते । तदेतच्चित्तविषयमिति सम्यग्विशोधितम् ॥ ६ ज्ञातव्यमखिलं ज्ञातं हातव्यमखिलं तथा । प्राप्तव्यमखिलं प्राप्तं कर्तव्यमखिलं कृतम् ॥ चतुर्विधा इमाः ख्याताः यास्ताः कार्यविमुक्तयः चरितार्था च मे बुद्धिः गुणाश्चानाधिकारिणः ॥ स्वस्वरूपप्रतिष्ठोऽहं एताश्चित्तविमुक्तयः । ततश्च नाहं नैवास्मि न मे चेति विनिश्चयः ॥ ७ क्षिप्तं मूढं च विक्षिप्तमेकाग्रं पञ्चमं पुनः । निरुद्धमिति चित्तस्य भूमयः पञ्च कीर्तिताः ॥ चित्तं चतुर्विधं तत्र व्युत्थानं प्रथमं मतम् । समाध्यारम्भसंज्ञं तु द्वितीयं परिकीर्तितम् ॥