मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 96, कुल 672 में से
संदर्भ में पढ़ें54 मानमेयरहस्यश्लोकवार्तिके एकाग्रता निरोधश्च तृतीयं च तुरीयकम् । तत्र पूर्वस्य संस्कारश्चोत्तरेण निहन्यते ॥ स्वयं निरोधसंस्कारः नश्येत्सीससुवर्णवत् । स्वभावतस्तत्त्वपक्षपातस्सर्वत्र दृश्यते ॥ 8 निरोधश्च समाधिश्च तथैवैकाग्रतेति च । स्थूलमध्यमसूक्ष्माख्याः परिणामास्स्युरन्तराः। ते धर्मलक्षणावस्थाभेदात् बाह्याः प्रकीर्तिताः । देशकालदशाभेदात् त्रैविध्यमभिसंहितम् ॥ चितिशक्ते ऋते सर्वे प्रतिक्षणविकारिणः । प्रतिक्षणपरीणामोऽवस्था सूक्ष्म उदाहृतः ॥ मध्यमो भूतभाव्यादिव्यवहारस्य गोचरः । घटादिपरिणामो यः स स्थूल इति निर्णयः ॥ भेदाभेदोऽत्राभिमतः तादात्म्यं धर्मधर्मिणोः । भावाभावविरोधस्तु स्यात्प्रतीतिपराहतः ॥ 9 बुद्धिवृत्तिः प्रमाणं स्याच्चिच्छायाऽत्र प्रमा मता आप्तेश्वरप्रणीतश्च वेद आगमलक्षणः ॥ वाच्यवाचकभावोऽस्य नित्यः संकेतसूचितः । यो विकल्पो निर्विषयख्यातिवादस्स उच्यते ॥ नात्रासत्ख्यातिवादस्स्यान्नापि ख्यातेरपह्नुतिः । तस्माद्योगाचारगुर्वोः मार्गादेष विलक्षणः ॥