मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 97, कुल 672 में से
संदर्भ में पढ़ें[Header] पातञ्जलदर्शनम् 55 10 चित्तवृत्तिनिरोधस्याभ्यासवैराग्यलक्षणौ । उपायौ प्रथमौ ज्ञेयौ तत्स्वरूपं निशाम्यताम् ॥ अभ्यासः स्थितियततः स्यात् तृष्णाहानिर्विरागता । तृष्णाक्षयसुखं सर्वसुखेभ्यो हि विशिष्यते ॥ 11 योगो द्विधस्स्यात्संप्रज्ञातासंप्रज्ञातभेदतः । ध्येयमात्रस्फूर्तिराद्यः तच्छून्योऽनन्तरो मतः ॥ सालम्बनस्स्यात्प्रथमः निरालम्बन उत्तरः । सबीजः प्रथमः प्रोक्तः निर्बीजस्स्यादनन्तरः ॥ मृदुर्मध्योऽधिमात्रश्च स्यादुपायस्त्रिधा मतः । मृदुर्मध्यश्च तीव्रश्च संवेगोऽपि त्रिधा स्थितः ॥ तत्र प्रत्येकयोगेन योगिनो नवधा मताः । तत्रोत्तरेषु चासन्ना सिद्धिः भक्ते ततोऽपिच ॥ संप्रज्ञातसमाधिस्तु समापत्तिरितीर्यते । तत्र ग्राह्यसमापत्तिः स्थूलसूक्ष्मविभेदतः ॥ सवितर्का निर्वितर्का सविचारा तथेतरा । चतुर्विधैवं तद्भिन्ना या तु ग्रहणगोचरा ॥ समापत्तिश्च सानन्दा निरानन्देति भिद्यते । स्याद्ग्रहीतृसमापत्तिः सास्मिता च निरास्मिता ॥ इति द्विधा तथा चाष्टौ समापत्तय ईरिताः । सर्वस्फूर्तिनिरोधे तु द्वितीयो योग उच्यते ॥