भारतकोश
मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

Manameyodaya of Narayana Bhatta with Commentary

नारायण भट्ट एवं नारायण पण्डित द्वारा

DevanagariHindipublished672 पृष्ठ

पृष्ठ 98, कुल 672 में से

संदर्भ में पढ़ें
पृष्ठ 98

6 मानमेयरहस्यश्लोकवार्तिके

संस्कारमात्रशेषं तु चित्तमत्रावतिष्ठते । 12 तद्भवप्रत्ययोपायप्रत्ययाभ्यां द्विधं मतम् ॥ एते भवप्रत्ययाः स्युः ये भवन्ति पुनर्भुवि । योगिनस्ते बहुविधाः पुराणेषु प्रपञ्चिताः ॥ दश मन्वन्तराणीह तिष्ठन्तीन्द्रियचिन्तकाः । भौतिकास्तु शतं पूर्णं सहस्रं त्वाभिमानिकाः ॥ बौद्धा दशसहस्राणि तिष्ठन्ति विगतज्वराः । पूर्णं शतसहस्रं तु तिष्ठन्त्यव्यक्तचिन्तकाः ॥ पुरुषं निर्गुणं प्राप्य कालसंख्या न विद्यते । एते हि तौष्टिकाः प्रोक्ताः विवेकख्यातिवर्जिताः ॥ तेषां चित्तं लीनमपिचोत्तिष्ठेत्सुप्तचित्तवत् । उपायप्रत्ययानां तु चित्तं नावर्तते पुनः ॥ विवेकिनस्सर्वमिदं हेयं दुःखमनागतम् । हेयहेतुस्तु संयोगोऽविद्यया द्रष्टृदृश्ययोः ॥ हानं दृशेस्तु कैवल्यं संयोगाभावलक्षणम् । हानोपायोऽविप्लवा स्यात् विवेकख्यातिलक्षणा ॥ प्रतिप्रसवहेयास्स्युः सूक्ष्माः संस्कारलक्षणाः । स्थूलास्तु ध्यानहेयाः स्युः क्लेशलक्षणवृत्तयः ॥ स प्रतिप्रसवः ख्यातः तस्यैव ध्वंसलक्षणः । तथाच धर्मिनाशेन धर्मनाश इति स्थितम् ॥