मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 99, कुल 672 में से
संदर्भ में पढ़ें13 हेतुवादोच्छेदवादशाश्वदादा इति त्रयम् । उपादाने च हाने चोपेक्षायां च क्रमान्मतम् ॥ तन्नोपादेय आत्माऽसौ नापि हेयोऽपितु स्वयम् । उपेक्षणीय एवातः आत्मा शाश्वतिको मतः ॥ 14 नित्योदिता च व्यङ्ग्या च चिच्छक्तिः द्विविधा मता । आद्या कूटस्थचिच्छक्तिः पुरुषस्स प्रकीर्तितः ॥ तत्सन्निधानाच्चित्तस्य या पुनः व्यज्यतेऽपरा । तदभिव्यक्तचैतन्यं चित्तं व्यङ्ग्येति कीर्त्यते ॥ चिच्छाया चेतनायमानं चापि भवत्यदः । प्रतिबिम्बाभिधा सैव पूर्वा बिम्बाभिधा मता ॥ सांनिध्यात् व्यञ्जनं यच्च तदेव प्रतिबिम्बनम् । तच्चित्तं वेद्यतां याति स्वाकारस्य समर्पणात् ॥ स्वकर्मानुगुणं भोक्ताऽधिष्ठितः परमात्मना । इति सांख्यैः स कथितः ये शान्तब्रह्मवादिनः ॥ तस्य यस्सुखदुःखादिभोगः कर्मनिबन्धनः । स एव पौरुषो भोगः विवेकाग्रहमूलकः ॥ अभिप्रायेण तेनैव कथितं विन्ध्यवासिना । या सत्त्वतप्यता सैव पुरुषे तप्येतेति च ॥ चित्तमेव द्रष्टृदृश्योपरक्तं त्वंशभेदतः । सर्वार्थमित्युच्यते यच्चेतनाचेतनात्मकम् ॥ M.R. 8