मनुस्मृति (कुल्लूकभट्ट टीका व हिन्दी अनुवाद सहित)
Manusmriti with Kulluka Bhatta Tika & Hindi Translation
महर्षि मनु द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 95, कुल 649 में से
संदर्भ में पढ़ें' भूमिका । ६३ श्रीकुङ्कुमेति विख्यातं सदा माङ्गलिकं मुने ॥ ७८ ॥ केवलं भक्तिदं पुंसाममङ्गलविनाशनम् । पुण्ड्राणामन्तरालस्थं मुक्तिदं मुनिसत्तम ॥ ७९ ॥ समुद्रमथनोद्भूता कमला मम वल्लभा । यदा तदाब्धिनाप्येषा दातुं मां समलंकृता ॥ ८० ॥ सुरासुराणां मध्ये च स्वयमेव विधानतः । दातुं कन्यां कङ्कणकरां समुद्रः समुपस्थितः ॥ ८१ ॥ सा तमालोक्य देवेशमात्मनो हितमीश्वरम् । प्रेमातिशयतो नेत्रादम्भोबिन्दुममुञ्चत् ॥ ८२ ॥ तेनाभूद् वीरुधः प्रेम नियतः परमाद्भुतः । तेनैव सा हरिं प्राप्ता वीरुधेन स्वयंवरे ॥ ८३ ॥ हरिं द्राति परम्लेम्ना निजार्थोत्र विचार्य (सा) । प्रापणाच्च हरेः साक्षाद् हरिद्रेयं प्रकीर्त्तिता ॥ ८४ ॥ लक्ष्म्याः प्रेमतरोः साक्षाद् हरेरत्यन्तवल्लभः । संवीक्ष्य चिह्नितं तेन भक्तं प्रीणाति केशवः ॥ ८५ ॥ लक्ष्मीप्रेमात्मकं द्रव्यं साक्षात्किं न करोति च । धनधान्यं समृद्धिं च रूपसौभाग्यसंपदम् ॥ ८६ ॥ विवाहव्रतवन्धादि जन्मयात्रासु युज्यते । द्रव्यं माङ्गलिकं साक्षाद् हारिद्रं प्रेमभाजनम् ॥ ८७ ॥ या नारी भालदेशे तु विभर्ति प्रत्यहं द्विज । सा नारी लभते भाग्यं सुखं च निजमन्दिरे ॥ ८८ ॥ लक्ष्मीनं मुञ्चति प्रेम्णा पार्श्वं तस्यास्त्वहर्निशम् । प्रयच्छति वरान् प्रीता जायते पतिवल्लभा ॥ ८९ ॥ ‘ लक्ष्मी प्रेमसमुद्भूते हरिद्रे हेमसंनिभे । बिभर्मि त्वां महाभागे वरदा भव ते नमः ॥ ९० ॥ ’