मयमतम् (मय मुनि प्रणीत वास्तुशास्त्र - डॉ. शैलजा पाण्डेय सविस्तार हिन्दी व्याख्या)
Mayamatam of Maya Muni with Hindi Commentary by Shailaja Pandey
मय मुनि (टीकाकार: डॉ. शैलजा पाण्डेय) द्वारा
पृष्ठ 203, कुल 395 में से
संदर्भ में पढ़ेंषोडशोऽध्यायः 卐 प्रस्तरकरणम् १७९ त्वग्जलैस्त्रिफलातोयं माषजूंषञ्च तत्समम्। संयम्य शर्कराशुक्त्योश्चूर्णं तत्क्वाथवारिणि।।६६।। खुरसंघट्टनं कृत्वा स्रावयित्वाथ वाससा। चिक्कणं कल्पयेत्तेन बद्धोदमथ चोच्यते।।६७।। दधिदुग्धं माषजूषैर्गुल्याज्यकदलीफलैः। नालिकेराग्रफलयोर्जलैश्चैतत् प्रकल्पितम्।।६८।। बद्धोदकं भवेत्तच्च समभागं नियोजयेत्। लब्धचूर्णशतांशं तु क्षौद्रमंशद्वयं भवेत्।।६९।। आज्यं तु कदलीपक्वं नालिकेराम्बुमाषयुक्। क्षीराङ्गत्त्वक्कषायं च क्षीरं दधि ततो गुलम्।।७०।। पिच्छिलं त्रिफलाम्भश्च त्र्यंशादिकमिदं क्रमात्। अंशवृद्ध्या समायोज्य पूतपक्वाम्बुशक्तितः।।७१।। एकीकृत्य करालं च प्रक्षिपेद् दृढवेष्टितम्। अतीत्यैकदिनं पश्चादथैव घनतां भवेत्।।७२।। (ख) बृहत्संहिता ( ५७ अ. वज्रलेपाध्याय ) में वज्रलेपों का वर्णन इस प्रकार प्राप्त होता है— १. आमं तिन्दुकमानं कपित्थकं पुष्पमपि च शाल्मल्याः। बीजानि शल्लकीनां धन्वनवल्को वचा चेति।। एतैः सलिलद्रोणः क्वाथयितव्योऽष्टभागशेषश्च। अवतार्योऽस्य च कल्को द्रव्यैरेते समनुयोज्यः।। श्रीवासकरसगुग्गुलभल्लातककुन्दुरुक्सर्जरसैः । अतसीबिल्वैश्च युतः कल्कोऽयं वज्रलेपाख्यः।। (१-३) २. लाक्षाकुन्दुरुगुग्गुलुगृहधूमकपित्थबिल्वमध्यानि । नागफलनिम्बतिन्दुकमदनफलमधूकमञ्जिष्ठा ।। सर्जरससामलकानि चेति कल्कः कृतो द्वितीयोऽयम्। वज्राख्यः प्रथमगुणैरयमपि तेष्वेव कार्येषु।। (५-६) ३. वज्रतल संज्ञक लेप इस प्रकार है— गोमहिषाजविषाणैः खररोम्णा महिषचर्मगव्यैश्च। निम्बकपित्थरसैः सह वज्रतलो नाम कल्कोऽन्यः।। (७) ४. वज्रसङ्घात संज्ञक लेप इस प्रकार निर्मित होता है—