मयमतम् (मय मुनि प्रणीत वास्तुशास्त्र - डॉ. शैलजा पाण्डेय सविस्तार हिन्दी व्याख्या)
Mayamatam of Maya Muni with Hindi Commentary by Shailaja Pandey
मय मुनि (टीकाकार: डॉ. शैलजा पाण्डेय) द्वारा
पृष्ठ 204, कुल 395 में से
संदर्भ में पढ़ें१८० मयमतम् अष्टौ सीसकभागाः कांस्यस्य द्वौ तु रीतिकाभागः । मयकथितौ योगोऽयं विज्ञेयो वज्रसंघातः ।। (८) ६. भित्ति (क) शिल्परत्न (पूर्व. २१ अ.) में पाँच प्रकार की—शिलानिर्मित, इष्टकानिर्मित, जालक-(जाल)-निर्मित, फलकनिर्मित एवं मृत्तिकानिर्मित भित्तियों का वर्णन प्राप्त होता है— तत् कुड्यं पञ्चधा प्रोक्तं तत्तद्द्रव्यविशेषतः ।। शिलामयं चेष्टकं च जालकामयमित्यपि । फलकामयमप्येतन्मृण्मयं च परं पुनः ।। (९-१०) (ख) वास्तुविद्या (१५ अ.) में शिला, मृत्तिका एवं काष्ठनिर्मित भित्तियों का वर्णन प्राप्त होता है— शिलया च मृदाप्यथवा तरुणा रचयेदथ कुड्यमतीव दृढम्। (१) इसकी 'लघुविवृति' टीका (त्रिवेन्द्रम् १९४० में प्रकाशित, पृ. १८६) में चौदह प्रकार के भित्ति-निर्मित गृहों का वर्णन प्राप्त होता है— गृहं तु विविधं प्रोक्तं शरीरैस्तु पृथग्विधैः । पाषाणैर्निचितं यच्च तद् गृहं मन्दिरं स्मृतम् ।। पक्वेष्टकं वास्तुनाम भवनं हितमुत्तमम् । आमेष्टकं सुमन्तं तु सुधारं कर्दमेन तु ।। मानस्यं वर्धितं काष्ठैर्वेणुभिर्नन्दनं स्मृतम् । वस्त्रैश्च विजयं प्रोक्तं राज्ञां शिल्पिविकल्पितम् ।। कालिनामेति विज्ञेयमष्टमं तृणजातिभिः । उत्तमानि तु चत्वारि गृहाणि गृहमेधिनाम् ।। सौवर्णं राजतं ताम्रमायसं च प्रकीर्तितम् । सौवर्णं पुष्करं नाम राजतं श्रीभवं तथा ।। ताम्रेण सूत्रमन्तं तु चण्डनाम तथायसम् । देवदानवगन्धर्वयक्षराक्षसकिन्नरैः ।। द्वादशैते प्रकारास्तु ग्रहाणां नियताः स्मृताः । जातुषं त्वानिलं नाम त्रापुषं वारिबन्धनम् ।। एवञ्जातिषु सर्वासु गृहाणि च चतुर्दश ।