भारतकोश
मयमतम् (मय मुनि प्रणीत वास्तुशास्त्र - डॉ. शैलजा पाण्डेय सविस्तार हिन्दी व्याख्या)

मयमतम् (मय मुनि प्रणीत वास्तुशास्त्र - डॉ. शैलजा पाण्डेय सविस्तार हिन्दी व्याख्या)

Mayamatam of Maya Muni with Hindi Commentary by Shailaja Pandey

मय मुनि (टीकाकार: डॉ. शैलजा पाण्डेय) द्वारा

DevanagariHindipublished395 पृष्ठ

पृष्ठ 251, कुल 395 में से

संदर्भ में पढ़ें
पृष्ठ 251

अष्टादशोऽध्यायः 卐 प्रासादोर्ध्ववर्गाः २२७ त्रिपादं वा तदर्थं वा वेद्यङ्गेर्गलवेशनम्। वेदास्त्रं नागकर्णं वस्वस्रं द्राविडे गलम्।। वृत्तं तु वेसरे हर्म्ये शीर्षानुकूलमाचरेत्। (१-५) इसी ग्रन्थ में दूसरा मत इस प्रकार है— अथान्यथा— वेदिकाद्विगुणोऽध्यर्धसमो वा स्याद्गलोदयः। भित्तिविस्तारनामांशं वेदिकावेशनं भवेत्।। ग्रीवावेशं तदूर्ध्वं स्याच्छरांशोनोऽपि तत्समः। मृणालिकावक्रपादभूतहंसमृगैरपि ।। व्यालनाट्यकथाभिर्वा गलभूषणमाचरेत्। कूटकोष्ठमहानासिपञ्जराद्यैरथापि वा।। (१२-१४) २. शिखरभेद ( श्लोक ७-१५ ) शिखरभेद का वर्णन शिल्परत्न ( पूर्व. ३२ अ. ) में इस प्रकार प्राप्त होता है— तारात् पञ्चद्विभागं वा नवसप्तांशमेव वा। त्रयोदशांशरुद्रांशं विमानानां विभागतः।।१।। अत्यष्टितिथिभागं वा वेदरामांशकं तु वा। षट्पञ्चांशं तु वा नागसप्तभागमथापि वा।।२।। विस्तारार्धं तु वा कुर्यादष्टधा शिखरोदयम्। वैदेहं मागधं चापि कौरवं कौसलं तथा।।३।। शौरसेनं च गान्धारं क्रमेणावन्तिकं स्मृतम्। व्यासार्धं शिखरोत्सेधं किञ्चिन्न्यूनं च मानुषम्।।४।। व्यासार्धं तुङ्गमाद्यं तु तत्तुङ्गे सप्तभाजिते। एकैकांशविवृद्ध्याष्टौ भवन्ति शिखरोदयाः।।५।। व्यामिश्रकं कलिङ्गं च तथा काशिकमेव च। वैराटं द्राविडं चैव बाह्लिकं कौल्लकं पुनः।।६।। तथा शौण्डिकमित्येते व्यामिश्रादिलुपोदयाः। एते दैवविमानानां पाषण्डश्रमिणां तथा।।७।। प्रतिलोमकुलानां तु विशेषेण शुभावहाः। अथवान्यप्रकारेण भवन्ति शिखरोदयाः।।८।।