मयमतम् (मय मुनि प्रणीत वास्तुशास्त्र - डॉ. शैलजा पाण्डेय सविस्तार हिन्दी व्याख्या)
Mayamatam of Maya Muni with Hindi Commentary by Shailaja Pandey
मय मुनि (टीकाकार: डॉ. शैलजा पाण्डेय) द्वारा
पृष्ठ 289, कुल 395 में से
संदर्भ में पढ़ेंएकविंशोऽध्यायः 卐 त्रिभूमिविधानम् २६५ पत्राविद्धार्धचन्द्रात्मकमथ मकरास्यादिमत् पञ्चभुग्नं कर्तव्यं तोरणं तद्विविधखगलसन्नक्रतुण्डोज्ज्वलं च ।।२७।। अब्जं क्षेपणकं पश्चात् तथैव क्षुद्रवाजनम्। तच्छिष्टं झषमानं तु तोरणावयवं स्मृतम् ।।२८।। स्तम्भे स्तम्भे प्रकर्तव्यं सर्वेषां स्तम्भतोरणम् ।।२९।। पादोच्चं तु त्रिधा भङ्क्त्वा त्रिभागं चरणोदयम्। उत्तरं वाजनं त्वब्जं क्षेपणं क्षुद्रवाजनम् ।।३०।। तदूर्ध्वं झषबन्धं तु शेषभागेन कारयेत्। स्तम्भविस्तारमानेन झषविस्तारमाचरेत् ।।३१।। ४. तीन प्रकार के तोरण ( श्लोक ६८-७२ ) तीन प्रकार के तोरणों का वर्णन शिल्परत्न ( पूर्व., अ. २३ ) में इस प्रकार किया गया है— पत्राख्यं तोरणं त्वादौ द्वितीयं मकराभिधम्। तृतीयं चित्रसंज्ञं तु त्रिविधं तोरणाकृतिः ।।११०।। अर्धचन्द्रसमाकारं पत्रजातिविराजितम्। पत्रतोरणमाख्यातं तच्छूद्राणां गृहोचितम् ।।१११।। पञ्चवक्त्रसमायुक्तं पार्श्वयोर्मकरास्यकम्। मध्ये पूरिमसंयुक्तं नाना