भारतकोश
मेघदूतम् (वैद्यनाथ झा शास्त्री हिन्दी टीका सहित)

मेघदूतम् (वैद्यनाथ झा शास्त्री हिन्दी टीका सहित)

Meghadutam of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Meghadutam with Sanskrit text and Hindi Commentary by Pt. Vaidyanath Jha Shastri (उद्गम)

DevanagariHindipublished335 पृष्ठ

पृष्ठ 101, कुल 335 में से

संदर्भ में पढ़ें
पृष्ठ 101

६२ | मेघदूतम्

व्याख्यादिक्षु = दिशासु, प्रथितविदिशालक्षणाम् = प्रसिद्धविदिशेति-नाम्नीम्, तेषां = दशार्णानाम्, राजधानीम् = मुख्यनगरीम्, गत्वा = प्राप्य, सद्यः = तत्क्षणम्, कामुकत्वस्य = विलासितायाः, अविकलम् = समग्रम्, फलम् = लाभम्, लब्धा = प्राप्स्यते भवतेति शेषः । यस्मात् = कारणात्, स्वादु = पेयम्, चलोर्मि = तरंगसहितम्, वेत्रवत्याः = वेत्रवतीनद्याः, पयः = जलम्, सभ्रूभंगम् = सकटाक्षम् मुखमिव = आननमिव (अधरमिवेतिभावः) तीरोपान्ते = कूलप्रदेशे, (यत्) स्तनितम् = गर्जितम्, तेन सुभगम् = सुन्दरम् = पास्यसि = पानं करिष्यसि ।

शब्दार्थःदिक्षु = दिशाओं में, प्रथितविदिशालक्षणाम् = विख्यात विदिशा नाम वाली, तेषाम् = दशार्ण देशवालों की, राजधानीम् = राजधानी में, गत्वा = जाकर, कामुकत्वस्य = कामुकता का, अविकलम् = सम्पूर्ण, फलम् = फल को, लब्धा = प्राप्त करोगे । यस्मात् = क्योंकि, स्वादु = मधुर, चलोर्मि = तरंगयुक्त, वेत्रवत्याः = वेत्रवती नदी के, पयः = जल को, सभ्रूभंगम् = कटाक्ष-युक्त, मुखमिव = मुख की तरह (अधर के समान) तीरोपान्तस्तनितसुभगम् = तट के पास गर्जन से सुन्दर, पास्यसि = पान करोगे ।

भावार्थः-हे मेघ ! विदिशाभिधेयां दशार्णानां राजधानीं गत्वा तत्र त्वं तत्क्षणमेव विलासिताया अशेषं लाभं लप्स्यसे । यतस्तत्र वेत्रवत्याः नद्याः मधुरं तरंगयुक्तञ्च जलं कस्याश्चिन्नायिकायाः कटाक्षयुक्तमधुरमिव तटप्रान्ते गर्जनान्तरं पास्यसि ।

हिन्दी—हे मेघ ! तुम विख्यात विदिशा नामावली दशार्णा देश की राज-धानी में जाकर तुरन्त विलासिता के सम्पूर्ण फल को प्राप्त कर लोगे । क्योंकि वहाँ वेत्रवती के मधुर एवं तरंगयुक्त जल को, किसी नायिका के कटाक्षयुक्त अधर के समान तटप्रान्त में गर्जन के बाद पान करोगे ।

समासः-प्रथितं "विदिशा" इति लक्षणं यस्याः ताम् प्रथितविदिशालक्षणम् (बहुव्रीहि०) । विगता कला यस्य तद्विकलम् (बहुव्रीहि०) । न विकलम् = अविकलम् (नञ् तत्०) । चलाः ऊर्मयो यस्याः तत् = चलोर्मि (बहुव्रीहि०) ।