भारतकोश
मेघदूतम् (वैद्यनाथ झा शास्त्री हिन्दी टीका सहित)

मेघदूतम् (वैद्यनाथ झा शास्त्री हिन्दी टीका सहित)

Meghadutam of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Meghadutam with Sanskrit text and Hindi Commentary by Pt. Vaidyanath Jha Shastri (उद्गम)

DevanagariHindipublished335 पृष्ठ

पृष्ठ 107, कुल 335 में से

संदर्भ में पढ़ें
पृष्ठ 107

६८ मेघदूतम्

कर्णयोः उत्पलानि कर्णोत्पलानि ( स० तत्० ) गण्डस्वेदापनयनरुजाक्लान्तानि कर्णोत्पलानि येषां तानि; तेषाम् (बहुव्रीहि०)। पुष्पाणि लुलन्तीति पुष्पलाव्यः तासां मुखानि = पुष्पलावीमुखानि (ष० तत्०) तेषाम् । छायायाः दानं तस्मात् ( ष० तत्० ) । क्षणं परिचितः = क्षणपरिचितः ( द्वि० तत्० ) ।

कोशः—पुमानाक्रीड उद्यानं राज्ञः साधारणं वनम्, इत्यमरः। मागधी, गणिका यूथिकाऽम्बष्ठा, इत्यमरः। कोरकजालककलिकाकुङ्मलमुकुलानि तुल्यानि, इति हलायुधः। रुजा रोगे च भंगे, इति मेदिनी। छाया सूर्यप्रिया-कान्तिः प्रतिबिम्बमनातपः, इत्यमरः। अव्यापारस्थितौ कालविशेषोत्सवयोः क्षणः, इत्यमरः।

टिप्पणी—विश्रान्तः—वि उपसर्गपूर्वक 'श्रम्' धातु से ''क्त'' प्रत्यय करके "विश्रान्त" ऐसा रूप निष्पन्न किया जाता है। सिञ्चन्—"सिच्" धातु जिसका अर्थ है आद्रीकरण, से लट् लकार लाकर उसके स्थान पर "लटः शतृ०" इत्यादि सूत्र से "शतृ" प्रत्यय करके नुमादि लाकर सिञ्चन् ऐसा रूप बनता है। पुष्पलावी—पुष्प उपपदपूर्वक छेदनार्थक "लू" धातु से कर्म में "कर्मण्यण्" इस सूत्र से अण् प्रत्यय करके वृद्धि करके स्त्रीत्व विवक्षा में "टिड्ढाणञ्" इत्यादि सूत्र से "ङीप्" करके पुष्पलावी शब्द बना है। यहाँ "कुगतिप्रादयः" से पुष्प और लावी का समास हुआ है ।। २६ ।।

वक्रः पन्था यदपि भवतः प्रस्थितस्योत्तराशां
सौधोत्सङ्ग-प्रणय-विमुखो मास्म-भूर्दुज्जयिन्याः ।
विद्युद्दाम—स्फुरित—चकितैस्तत्र पौराङ्गनानां
लोलापाङ्गैर्यदि न रमते लोचनैर्वञ्चितोऽसि ॥ २७ ॥

अन्वयः—उत्तराशाम् प्रस्थितस्य भवतः पन्था यदपि वक्रः उज्जयिन्याः सौधोत्सङ्ग-प्रणय-विमुखः मास्मभूः। तत्र विद्युद्दामस्फुरितचकितैः लोलापाङ्गैः पौराङ्गनानाम् लोचनैः यदि न रमसे वञ्चित असि।