मेघदूतम् (वैद्यनाथ झा शास्त्री हिन्दी टीका सहित)
Meghadutam of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Meghadutam with Sanskrit text and Hindi Commentary by Pt. Vaidyanath Jha Shastri (उद्गम)
पृष्ठ 110, कुल 335 में से
संदर्भ में पढ़ेंपूर्वमेघः ७१
"लुङ्लङ्लृङ्क्ष्वडुदात्तः" इस सूत्र से प्राप्त अडागम का "न माङ्योगे" इस सूत्र से निषेध हो गया है ॥ २७ ॥
वीचिक्षोभस्तनितविहगश्रेणिकाञ्चीगुणायाः
संसर्पन्त्याः स्खलितसुभगं दर्शितावर्तनाभेः ।
निर्विन्ध्यायाः पथि भवरसाम्यन्तरः सन्निपत्य
स्त्रीणामाद्यं प्रणयवचनं विभ्रमो हि प्रियेषु ॥ २८ ॥
अन्वयः—पथि वीचिक्षोभस्तनितविहगश्रेणिकाञ्चीगुणायाः स्खलितसुभगं संसर्पन्त्याः दर्शितावर्तनाभेः निर्विन्ध्यायाः सन्निपत्य रसाभ्यन्तरः भव ! हि स्त्रीणाम् प्रियेषु विभ्रमः आद्यम् प्रणयवचनम् ।
व्याख्या—पथि=मार्गे, वीचिक्षोभस्तनितविहगश्रेणि-काञ्चीगुणायाः=तरङ्गसचलनशब्दायितपक्षिपङ्क्तिकटिबन्धदोरकः यस्याः तस्याः, स्खलितेन=मदस्खलितेन, सुभगम्=रमणीयम्, यथास्यात्तथा संसर्पन्त्याः=प्रवाहितायाः, वा निर्विन्ध्यायाः=एतन्नामिकायाः नद्याः अथवा कस्याश्चिन्नायिकायाः, सन्निपत्य=संयत्य, रसाभ्यन्तरः=जलमध्यगतः अन्तःस्थितशृंगारो वा, भव, हि=यतः, स्त्रीणाम्=कामिनीनाम्, प्रियेषु=कान्तेषु, (विषये) विभ्रमः=विलास एव, आद्यम्=प्रथमम्, प्रणयवचनम्=प्रेमवाक्यम् भवति । कामिन्यः रतिप्रसंगे स्वकीयामिच्छां हाव-भाव-प्रदर्शनेनैव प्रकटयन्ति, न तु शब्दतः कथयन्ति लज्जाधिक्यात् । अत्र विलासप्रदर्शनम् आवर्तरूपं नाभिप्रदर्शनमेव ।
शब्दार्थः—पथि=मार्ग में, वीचिक्षोभस्तनितविहगश्रेणिकाञ्चीगुणायाः=लहरों के चलने से शब्द करते हुए पक्षियों (हंसादि) की पङ्क्ति ही जिसकी करधनी है, स्खलित-सुभगं संसर्पन्त्याः=पत्थरों से टकराते हुए (जवानी के मद से फिसलती हुई जो) बड़ी अच्छी चाल से बह रही है या चल रही है, दर्शितावर्तनाभेः=जिसने भँवररूपी अपनी नाभि को दिखा दिया है; (ऐसी) निर्विन्ध्यायाः=निर्विन्ध्या नदी के, सन्निपत्य=संपर्क में आकर;