मेघदूतम् (वैद्यनाथ झा शास्त्री हिन्दी टीका सहित)
Meghadutam of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Meghadutam with Sanskrit text and Hindi Commentary by Pt. Vaidyanath Jha Shastri (उद्गम)
पृष्ठ 123, कुल 335 में से
संदर्भ में पढ़ें८४ मेघदूतम्
( पत्रश्यामा दिनकरहयस्पर्धिनो यत्र वाहाः शैलोदग्रास्त्वमिव करिणो वृष्टिमन्तः प्रभेदाद् । योधाग्रण्यः प्रतिदशमुखं संयुगे तस्थिवांसः प्रत्यादिष्टाभरणरुचयश्चन्द्रहास-व्रणाङ्कैः ॥ )
अन्वयः—यत्र वाहाः पत्रश्यामाः दिनकरहयस्पर्धिनः शैलोदग्राः करिणः प्रभेदात् त्वमिव वृष्टिमन्तः योधाग्रण्यः संयुगे प्रतिदशमुखम् तस्थिवांसः चन्द्रहासव्रणाङ्कैः प्रत्यादिष्टाभरणरुचयः ।
व्याख्या—यत्र=उज्जयिन्याम्, वाहाः=घोटकाः, पत्रश्यामाः=पर्णश्यामाः हरितवर्णाः इत्यर्थः; दिनकरहयस्पर्धिनः=सूर्याश्वतुल्याः, वर्णेन वेगेन च सूर्याश्वतुल्या इति भावः। शैलोदग्राः=पर्वतेवोच्छ्रिताः, करिणः=गजाः, प्रभेदात्=मदस्रवणात्, त्वमिव=भवत्समानः, मेघेवेत्यर्थः, वृष्टिमन्तः=वर्षणशीलाः सन्तीति शेषः। योधाग्रण्यः=सेनानायकाः, संयुगे=युद्धे, प्रतिदशमुखम्=रावणसमक्षम्, तस्थिवांसः=स्थिताः, चन्द्रहासव्रणाङ्कैः=रावणकरवाल-क्षतचिह्नैः, प्रत्यादिष्टाऽऽभरणरुचयः=तिरस्कृतभूषणकान्तिमन्तः सन्तीति भावः।
शब्दार्थः—यत्र=जिस उज्जयिनी में, वाहाः=घोड़े, पत्रश्यामाः=पत्ते के समान हरे रंग के, दिनकरहयस्पर्धिनः=सूर्य के घोड़ों से, रंग में एवं वेग में होड़ लेने वाले हैं। शैलोदग्राः=पर्वत के समान ऊँचे, करिणः=हाथी, प्रभेदात्=मदजल के गिरने के कारण, त्वमिव=तुम्हारी तरह, वृष्टिमन्तः=वर्षा वाले हैं। योधाग्रण्यः=श्रेष्ठ योद्धा-गण, संयुगे=युद्ध में, प्रतिदशमुखम्=रावण के सम्मुख, तस्थिवांसः=स्थिर होकर ( उसके विरुद्ध होकर, ) चन्द्रहासव्रणाङ्कैः=रावण के तलवार के प्रहार के चिह्नों से, प्रत्यादिष्टाभरणरुचयः=आभूषणों को तिरस्कृत करने वाली कान्ति से युक्त है।
भावार्थः—हे मेघ ! यत्रत्याः अश्वाः हरितवर्णत्वात् वेगाच्च सूर्याश्वसंघर्षणशीलाः सन्ति, पर्वतसमानोच्चाः गजाः मदजलवर्षणात् वृष्टिमन्तः सन्ति, श्रेष्ठाः