मेघदूतम् (वैद्यनाथ झा शास्त्री हिन्दी टीका सहित)
Meghadutam of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Meghadutam with Sanskrit text and Hindi Commentary by Pt. Vaidyanath Jha Shastri (उद्गम)
पृष्ठ 124, कुल 335 में से
संदर्भ में पढ़ेंपूर्वमेघः ८५
योद्धारः रणे रावणं प्रतियुद्ध्यन्तस्तदीयखड्गप्रहारचिह्नैः प्रत्याख्याताऽऽभरण-कान्तयः सन्ति ।
हिन्दी—हे मेघ ! जहाँ घोड़े हरे रंग के होने के कारण ( और वेग के कारण ) सूर्य के घोड़ों से होड़ लेने वाले हैं, पर्वत के समान ऊँचे हाथी मदजल के गिरने से वृष्टि वाले हैं एवं श्रेष्ठ योद्धागण युद्ध में रावण के विरुद्ध युद्ध करते हुए रावण के खड्ग के प्रहार-चिह्न से युक्त होकर आभूषण को तिरस्कृत करने वाली कान्ति से युक्त हैं ।
समासः—पत्रमिव श्यामाः = पत्रश्यामाः (कर्मधारयः) । दिनकरस्य हयाः = दिनकरहयाः ( ष० तत्० ) तैः स्पर्धन्ते तच्छीला इति दिनकरहयस्पर्धिनः । चन्द्रहासस्य व्रणानि चन्द्रहासव्रणानि ( ष० त० ) तान्येव अङ्कास्तैः चन्द्रहास-व्रणाङ्कैः ( रूपकसमासः ) । आभरणानां रुच्यः आभरणरुचयः ( ष० तत्० ) प्रत्यादिष्टा आभरणरुचयो यैस्ते = प्रत्यादिष्टाऽभरणरुचयः ( बहु० ) ।
कोशः—वाजिवाहाऽर्वागन्धर्वहयसैन्धवसप्तयः, इत्यमरः । खड्गे तु निस्त्रिंश-चन्द्रहासाऽसिरिष्टयः, इत्यमरः । स्युः प्रभा रुग् रुचिस्त्वड्भाभाश्छविद्युतिदीप्तयः, इत्यमरः ।
टिप्पणी—वाहाः ═ "वह" धातु से घञ् प्रत्यय करके "वाह" ऐसा रूप बनाया जाता है । दिनकरः—करोतीति करः दिनं करोतीति दिनकरः ॥
जालोद्गीर्णैरुपचितवपुः केशसंस्कारधूपै-
र्बन्धुप्रीत्या भवनशिखिभिर्दत्तनृत्योपहारः ।
हर्म्येष्वस्याः कुसुमंसुरभिष्वध्व-खेदं नयेथाः
लक्ष्मीं पश्येल्ललितवनितापादरागाङ्कितेषु ॥ ३२ ॥
अन्वयः—जालोद्गीर्णैः केशसंस्कारधूपैः उपचितवपुः बन्धुप्रीत्या भवन-शिखिभिः दत्तनृत्योपहारः कुसुमसुरभिषु ललितवनितापादरागाङ्कितेषु, हर्म्येषु अस्याः लक्ष्मीम् पश्यन् अध्वखेदम् नयेथाः ।