भारतकोश
मेघदूतम् (वैद्यनाथ झा शास्त्री हिन्दी टीका सहित)

मेघदूतम् (वैद्यनाथ झा शास्त्री हिन्दी टीका सहित)

Meghadutam of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Meghadutam with Sanskrit text and Hindi Commentary by Pt. Vaidyanath Jha Shastri (उद्गम)

DevanagariHindipublished335 पृष्ठ

पृष्ठ 129, कुल 335 में से

संदर्भ में पढ़ें
पृष्ठ 129

९० मेघदूतम्

कुर्वन् सन्ध्याबलिपठहतां शूलिनः श्लाघनीया मामन्द्राणां फलमविकलं लप्स्यते गर्जितानाम् ॥ ३४ ॥

**अन्वयः—**हे जलधर ! महाकालम् अन्यस्मिन् अपि काले आसाद्य ते स्थातव्यम्, यावत् भानुः नयनविषयम् अत्येति । श्लाघनीयाम् शूलिनः सन्ध्या-बलिपठहतां कुर्वन् आमन्द्राणाम् गर्जितानाम् अविकलम् फलम् लप्स्यसे ।

**व्याख्या—**हे जलधर ! = हे मेघ ! महाकालम् = एतन्नामकज्योतिर्लिङ्ग-स्थानम्, अन्यस्मिन्नपि = अपरस्मिन्नपि, काले = समये, आसाद्य = प्राप्य, ते = त्वया, स्थातव्यम् = निवसितव्यम्, यावत् = यावत् कालम्, भानु = दिनकरः, नयनविषयम् = दृष्टिगोचरताम्, अत्येति = अतिक्रामति, सूर्यास्तसमयपर्यन्तं त्वया तत्र स्थातव्यम् इति भावः । श्लाघनीयाम् = प्रशंसनीयाम्, शूलिनः = महाकाले-श्वरस्य, शिवस्येत्यर्थः, सन्ध्याबलिपटरहताम् = सायङ्कालिकपूजापटहभावम्, कुर्वन् = विदधत्, आमन्द्राणाम् = ईषदगम्भीराणाम्, गर्जितानाम् = स्तनितानाम्, अविकलम् = सम्पूर्णम्, फलम् = पुण्यम्, लप्स्यसे = प्राप्स्यसि ।

**शब्दार्थः—**हे जलधर ! = हे मेघ ! महाकालम् = चण्डीश्वर के स्थान में, अन्यस्मिन्नपि = सन्ध्या के अतिरिक्त, काले = समय में भी, आसाद्य = जाकर, ते = तुम्हें, स्थातव्यम् = ( वहाँ ) ठहरना चाहिए, यावत् = जब तक, भानुः = सूर्य, नयनविषयम् = दृष्टिगोचरता को, अत्येति = अतिक्रमण करता है, अर्थात् जब तक सूर्य डूब नहीं जाते हैं, तब तक । श्लाघनीयाम् = प्रशंसनीय, शूलिनः = शिवजी की, सन्ध्याबलिपठहताम् = सन्ध्या की पूजा ( आरती ) में नगाड़े का काम, विदधतः = करता हुआ ( तुम ), आमन्द्राणाम् = किञ्चिद् गम्भीर, गर्जि-तानाम् = गर्जन का, अविकलम् = सम्पूर्ण, फलम् = फल को, लप्स्यसे = प्राप्त करेगा ।

**भावार्थः—**हे मेघ ! सन्ध्याऽतिरिक्तसमयेऽपि महाकालेश्वरस्य पुण्यं धाम गत्वा त्वं सूर्यो यावत्कालपर्यन्तमस्ताचलं न गच्छेत् तावत्कालपर्यन्तं स्थास्यसि । ( यतो हि ) सायन्तनपूजापटहतां विदधत् ईषदगम्भीरनादस्त्वं गर्जितानां सम्पूर्ण फलं प्राप्स्यसि ।