भारतकोश
मेघदूतम् (वैद्यनाथ झा शास्त्री हिन्दी टीका सहित)

मेघदूतम् (वैद्यनाथ झा शास्त्री हिन्दी टीका सहित)

Meghadutam of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Meghadutam with Sanskrit text and Hindi Commentary by Pt. Vaidyanath Jha Shastri (उद्गम)

DevanagariHindipublished335 पृष्ठ

पृष्ठ 131, कुल 335 में से

संदर्भ में पढ़ें
पृष्ठ 131

५२ | मेघदूतम्

अलंकार—यहाँ पूर्वार्ध कथित वाक्यों का उत्तरार्ध कथित वाक्य हेतु है, अतः यहाँ 'काव्यलिङ्ग' नामक अलङ्कार है ॥ ३४ ॥

पादन्यासैः क्वणित-रशनास्तत्र लीलावधूतैः
रत्नच्छायाखचित-वलिभिश्चामरैः क्लान्तहस्ताः ।
वेश्यास्त्वत्तो नखपद-सुखान् प्राप्यवर्षाग्रबिन्दू-
नामोक्ष्यन्ते त्वयि मधुकर-श्रेणि-दीर्घान् कटाक्षान् ॥ ३५ ॥

अन्वयः—तत्र पादन्यासैः क्वणितरशनाः लीलावधूतैः रत्नच्छायाखचित-वलिभिः चामरैः क्लान्तहस्ताः वेश्याः त्वत्तः नखपदसुखान् वर्षाग्रबिन्दून् प्राप्य त्वयि मधुकरश्रेणिदीर्घान् कटाक्षान् आमोक्ष्यन्ते ।

व्याख्या—तत्र = सन्ध्यासमये, पादन्यासैः = चरणप्रक्षेपैः, क्वणितरशनाः = मुखरितमेखलाः, लीलावधूतैः = विलाससञ्चलितैः, रत्नच्छायाखचितवलिभिः = कङ्कणमणिप्रभाव्याप्तदण्डैः, चामरैः = बालव्यजनैः, क्लान्तहस्ताः = खिन्नहस्ताः, वेश्याः = वाराङ्गनाः, त्वत्तः = भवतः मेघादिति भावः, नखपदसुखान् = नखक्षत-सुखदान्, वर्षाग्रबिन्दून् = वृष्टिप्रथमकणान्, प्राप्य = लब्ध्वा, त्वयि = मेघे, मधु-करश्रेणिदीर्घान् = भ्रमरपंक्तीवायतान्, कटाक्षान् = अपाङ्गान्, आमोक्ष्यन्ते = परित्यक्ष्यन्ति ।

शब्दार्थः—तत्र = संध्या समय में, पादन्यासैः = पैरों के सञ्चालन से, क्वणितरशनाः = जिनकी करधनियाँ बजती रहती हैं, लीलावधूतैः = विलासपूर्वक डुलाये गये, रत्नच्छायाखचितवलिभिः = मणियों की प्रभा से व्याप्तदण्डवाले, चामरैः = चँवरों से, क्लान्तहस्ताः = थके हुए हाथों वाली, वेश्याः = नर्तकियां = त्वत्तः = तुमसे, नखपदसुखान् = नखक्षत को सुख देनेवाली, वर्षाग्रबिन्दून् = वर्षा की पहली बूंदों को, प्राप्य = पाकर, त्वयि = तुम्हारे ऊपर, मधुकरश्रेणि-दीर्घान् = भ्रमरों की पंक्ति की तरह लम्बी, कटाक्षान् = कटाक्ष, आमोक्ष्यन्ते = फेकेंगी ।