मेघदूतम् (वैद्यनाथ झा शास्त्री हिन्दी टीका सहित)
Meghadutam of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Meghadutam with Sanskrit text and Hindi Commentary by Pt. Vaidyanath Jha Shastri (उद्गम)
पृष्ठ 132, कुल 335 में से
संदर्भ में पढ़ेंपूर्वमेघः ९३
भावार्थः—हे मेघ ! सायंकाले चरणविक्षेपैः मुखरितमेखलाः सविलासं मणिमयदण्डयुक्तचामरसञ्चालनेन खिन्नहस्ताः गणिकाः त्वत्तः नखक्षतशान्ति-प्रदान् वृष्टेः प्रथमबिन्दून् लब्ध्वा त्वयि भ्रमरपंक्तीवायतान् कटाक्षान् परित्य-क्ष्यन्ति । कामिनीकटाक्षरूपं शिवस्तुतिफलं सद्यः लप्स्यसे इति भावः ।
हिन्दी—हे मेघ ! सायंकाल वहाँ, चरणसंचालन से जिनकी करधनियां बजती रहती हैं, विलासपूर्वक मणिमयदण्डवाले चँवरों को डुलाने के कारण थके हुए हाथों वाली, (ऐसी) नतंर्कियां, तुमसे नखक्षत को सुख देने वाली वर्षा की प्रथम बिन्दुओं को पाकर, तुम्हारे ऊपर भौरों की पंक्ति के समान लम्बी कटाक्षें फेंकेंगी । इस तरह शिवजी की स्तुति का कामिनी के कटाक्षरूप फल तुरन्त पा जाओगे ।
समासः—पादयोः न्यासः=पादन्यासः ( ष० तत्० ) तैः क्वणिता रशना यासां ताः पादन्यासक्वशणितरशनाः (बहुव्री०) । लीलया अवधूतैः=लीलावधूतैः (तृ० तत्०) । रत्नानां छाया=रत्नच्छाया ( ष० तत्० ) तया खचिता वलयो येषां तैः=रत्नच्छायाखचितवलिभिः ( बहुव्री० ) । क्लान्तो हस्तो यासां ताः क्लान्तहस्ताः ( बहुव्री० ) । नखानां पदानि=नखपदानि (ष० तत्०) तेषु सुखाः तान् नखपदसुखान् ( स० तत्० ) । अग्राश्च ते विन्दवः=अग्रबिन्दवः (कर्मधा०) वर्षस्य अग्रबिन्दवः=वर्षाग्रबिन्दवः (ष० तत्०) । मधुकराणां श्रेणी मधुकर श्रेणी तद्वद्दीर्घान् मधुकरश्रेणिदीर्घान् ( उपमानानि सामान्यवचनैरिति समासः ) ।
कोशः—पदं व्यवसितत्राणस्थानलक्ष्मांध्रिवस्तुषु, इत्यमरः । वलिश्चामरदण्डे च जरा विश्लथचर्मणि, इति विश्वः । करोपहारयोः पुंसि वलिः, इत्यमरः । सुखहेतौ सुखे सुखम्, इति शब्दार्णवः । दीर्घमायतम्, इत्यमरः । कटाक्षोऽपाङ्गदर्शने, इत्यमरः । पृषन्ति बिन्दुवृषतः पुमांसो विप्रुषः स्त्रियाम्, इत्यमरः ।
टिप्पणी—न्यास—"नि" उपसर्गपूर्वक "अस्" धातु से भाव में "घञ्" प्रत्यय करके आदिवृद्धि करके "न्यास" शब्द निष्पन्न होता है । क्वणित—यहाँ शब्दार्थक "क्वण्" धातु से कर्ता में "क्त" प्रत्यय हुआ है, क्योंकि यह धातु,