मेघदूतम् (वैद्यनाथ झा शास्त्री हिन्दी टीका सहित)
Meghadutam of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Meghadutam with Sanskrit text and Hindi Commentary by Pt. Vaidyanath Jha Shastri (उद्गम)
पृष्ठ 133, कुल 335 में से
संदर्भ में पढ़ें| ९४ | मेघदूतम् |
|---|
अकर्मक है, इसलिए "गत्यर्थाऽकर्मकश्लिषशीङ्स्थाऽऽसवसजनरुहजीर्यतिभ्यश्च" इस सूत्र से कर्ता में "क्त" प्रत्यय का विधान किया जाता है । त्वत्तः—यहाँ "युष्मद्" शब्द से "पञ्चम्यास्तसिल्" इस सूत्र से तसिल् प्रत्यय करके उसके परे रहते "प्रत्ययोत्तरपदयोश्च" इस सूत्र से "युष्मद्" शब्द के स्थान पर "त्वत्" आदेश का विधान करके "त्वत्तः" ऐसा रूप बना है । मधुकरः—मधु करोतीति = मधुकरः, यहाँ करोति तच्छीलः इस अर्थ में "कृ" धातु से "कृञो हेतुताच्छील्याऽनुलोम्येषु" इस सूत्र से "ट" प्रत्यय करके गुण करके मधुकर ऐसा रूप बनता है ।
अलंकार—यहाँ "मधुकरश्रेणिदीर्घान्" इस स्थल पर "इव" आदि उपमानवाची सामान्य शब्द का लोप होने के कारण "लुप्तोपमा" नामक अलङ्कार है ॥ ३५ ॥
पश्चादुच्चैर्भुज--तरुवनं मण्डलेनाभिलीनः
सान्ध्यं तेजः प्रतिनवजपापुष्परक्तं दधानः ।
नृत्यारम्भे हर पशुपतेरार्द्रनागाजिनेच्छां
शान्तोद्वेगस्तिमितनयनं दृष्टभक्तिर्भवान्याः ॥३६॥
अन्वयः—पश्चात् नृत्यारम्भे प्रतिनवजपापुष्परक्तम् सान्ध्यम्, तेजः दधानः उच्चैः भुजतरुवनम् मण्डलेन अभिलीनः भवान्या शान्तोद्वेगस्तिमितनयनम् दृष्टभक्तिः पशुपतेः आर्द्रनागाजिनेच्छाम् हर ।
व्याख्या—पश्चात् सायन्तनपूजावसाने, नृत्यारम्भे = ताण्डवोपक्रमे शिवस्येति शेषः; प्रतिनवजपापुष्परक्तम् = नूतनजपाकुसुमारुणम्, सान्ध्यम् = सन्ध्याकालिकम्, तेजः = कान्तिम्, दधानः = धारयन्, उच्चैः = उन्नतम्, भुजतरुवनम् = बाहुवृक्षकाननम्, मण्डलेन = वृत्ताकारतया, अभिलीनः = अभिव्याप्तः, (सन्) भवान्या = पार्वत्या, शान्तोद्वेगस्तिमितनयनम् = विगतभयस्थिरनेत्रम् यथास्यात्तथा, (त्वम्) दृष्टभक्तिः = अवलोकितानुरागः, पशुपतेः = महाकालेश्वरस्य आर्द्रनागाजिनेच्छाम् = क्लिन्नगजचर्माऽऽकांक्षाम्, हर = दूरी कुरु, त्वमेव गजचर्मास्थानी कृष्णवर्णत्वेन भवेति भावः ।