भारतकोश
मेघदूतम् (वैद्यनाथ झा शास्त्री हिन्दी टीका सहित)

मेघदूतम् (वैद्यनाथ झा शास्त्री हिन्दी टीका सहित)

Meghadutam of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Meghadutam with Sanskrit text and Hindi Commentary by Pt. Vaidyanath Jha Shastri (उद्गम)

DevanagariHindipublished335 पृष्ठ

पृष्ठ 139, कुल 335 में से

संदर्भ में पढ़ें
पृष्ठ 139

१०० मेघदूतम्

शेषम् = मार्गावशेषम्, वाहयेत् = प्राप्नुयात्, सुहृदाम् = मित्राणाम्, अभ्युपेतार्थ- कृत्याः = अङ्गीकृत-क्रियाः, (जनाः), न खलु मन्दायन्ते = नैव मन्दाः भवन्ति ।

शब्दार्थः—चिरविलसनात् = बहुत समय तक चमकने के कारण, खिन्न- विद्युत्कलत्रः = थक गयी है बिजलीरूपी स्त्री जिसकी (ऐसे), भवान् = आप, सुप्तपारावतायाम् = जहाँ कबूतर सो गये हैं ऐसे, कस्यांचित् = किसी, भवन- वलभौ = महल के ऊपरी भाग पर, तां रात्रिम् = उस रात्रि को, नीत्वा = बिता- कर, सूर्ये = सूरज के, दृष्टे = दीखने पर अर्थात् उग जाने पर, अध्वशेषम् = अवशिष्ट मार्ग को, वाहयेत् = पार करना (क्योंकि), सुहृदाम् = मित्रों के, अभ्युपेतार्थ-कृत्याः = कार्य को (करने के लिए) अङ्गीकार कर लिया है, जिन्होंने ऐसे पुरुष, न खलु मन्दायन्ते = कभी आलस्य नहीं करते हैं ।

भावार्थः—बहु-कालं यावत् स्फुरणात् खिन्न-चञ्चलभार्यः त्वं सुप्तपारावते कस्मिश्चित् भवनस्योपरिभागे तां रात्रिमतिवाह्य सूर्योदये सति पुनः मार्गावशेषं वाहयेः । यतो हि मित्राणामङ्गी-कृतकर्तव्याः जनाः न मन्दायन्ते ।

हिन्दी—हे मेघ ! बहुत समय तक चमकने के कारण थकी हुई बिजली- रूपी पत्नीवाले तुम जहाँ कबूतर सो गये हैं ऐसे किसी भवन के ऊपरी भाग पर उस रात्रि को बिताकर सूर्योदय हो जाने पर जो मार्ग बच गया हो उसे भी पार करना, क्योंकि जिन्होंने मित्रों के कार्यों को करना स्वीकार कर लिया है, वे पुरुष कभी आलस्य नहीं करते ।

समासः—चिरं विलसनं तस्मात् (सुप्सुपेति समासः) । खिन्नं विद्युदेव कलत्रं यस्य सः = खिन्नविद्युत्कलत्रः (बहुव्री०) । सुप्ताः पारावताः यस्यां सा सुप्तपारावता (बहुव्री०) तस्याम् । भवनस्य वलभी = भवनवलभी (ष० तत्०) तस्याम् । अध्वनः शेषम् = अध्वशेषम् (ष० तत्०) । अभ्युपेता अर्थस्य कृत्या यैस्ते अभ्युपेतार्थंकृत्याः (बहु०) ।

कोशः—कलत्रं श्रोणिभार्ययोः, इत्यमरः । पारावतः कलरवः कपोतोऽथ, इत्यमरः । आच्छादन्तु वलभी छादने वक्रदारुणि, इत्यमरः । आच्छादनं स्याद्वल-