भारतकोश
मेघदूतम् (वैद्यनाथ झा शास्त्री हिन्दी टीका सहित)

मेघदूतम् (वैद्यनाथ झा शास्त्री हिन्दी टीका सहित)

Meghadutam of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Meghadutam with Sanskrit text and Hindi Commentary by Pt. Vaidyanath Jha Shastri (उद्गम)

DevanagariHindipublished335 पृष्ठ

पृष्ठ 143, कुल 335 में से

संदर्भ में पढ़ें
पृष्ठ 143

१०४ मेघदूतम्

तस्मादस्याः कुमुदविशदान्यर्हंसि त्वं न धैर्यान्-

मोघीकर्तुं चदुलशफरोद्वर्तन—प्रेक्षितानि ॥ ४० ॥

अन्वयः—गम्भीरायाः सरितः चेतसि इव प्रसन्ने पयसि प्रकृतिसुभगः ते याऽऽत्मा अपि प्रवेशम् लप्स्यते । तस्मात् अस्याः कुमुद-विशदानि चदुलशफ-रोद्वर्तन-प्रेक्षितानि त्वम् धैर्यात् मोघीकर्तुम् न अर्हसि ।

व्याख्या—हे मेघ ! गम्भीरायाः एतन्नामिकायाः, सरितः=नद्याः, चेतसि मानसे, इव=यथा, प्रसन्ने=स्वच्छे, पयसि=जले, प्रकृतिसुभगः=शाश्वतिकमनोहरः, ते=तव मेघस्येति यावत्; छायात्माऽपि=प्रतिबिम्बस्वरूपआत्माऽपि; प्रवेशम्=निवेशम्, लप्स्यते=प्राप्स्यति । तस्मात्=तत्कारणात्, तस्याः=गम्भीरायाः, कुमुदविशदानि=कैरवोज्ज्वलानि, चदुलशफरोद्वर्तनप्रेक्षितानि=चञ्चलमत्स्योल्लुण्ठनानि, त्वम्=मेघः, धैर्यात्=धीरत्वात्, मोघीकर्तुम्=विफलीकर्तुम्, न अर्हसि=न योग्योऽसि ।

शब्दार्थः—(हे मेघ !) गम्भीरायाः=गम्भीरा नाम की, सरितः=नदी के, चेतसि=हृदय, इव=की तरह, प्रसन्ने=निर्मल, पयसि=जल में, प्रकृतिसुभगः=स्वभाव से सुन्दर, ते=तुम्हारा, छायात्माऽपि=छायारूपी शरीर भी, प्रवेशम्=प्रवेश को, लप्स्यते=प्राप्त करेगा । तस्मात्=इस कारण से, अस्याः=इस गम्भीरा नदी के, कुमुदविशदानि=कुमुद के समान धवल, चदुलशफरोद्वर्तनप्रेक्षितानि=चञ्चल मछलियों के उच्छलन रूप चितवनों को, त्वम्=तुम, धैर्यात्=धीरता से, मोघीकर्तुम्=निष्फल करने मे, न अर्हसि=समर्थ नहीं हो ।

भावार्थः—हे मेघ ! गम्भीरायाः प्रसन्नहृदय इव स्वच्छे जले प्रतिबिम्बरूपेण प्रविष्टो हि त्वं गम्भीरया नद्या कयाचिदुदात्तनायिकयेव चञ्चलमत्स्योल्लुण्ठन-रूपैरवलोकनै रवलोकयिष्यसे । त्वमपि धैर्यमाश्रित्य तदवलोकनं निष्फली कर्तुं न समर्थोऽसि ।

हिन्दी—हे मेघ ! गम्भीरा नदी के प्रसन्न हृदय के समान निर्मल जल में छायारूप से प्रविष्ट तुम्हें गम्भीरा नदी किसी उदात्त नायिका की तरह चञ्चल-