भारतकोश
मेघदूतम् (वैद्यनाथ झा शास्त्री हिन्दी टीका सहित)

मेघदूतम् (वैद्यनाथ झा शास्त्री हिन्दी टीका सहित)

Meghadutam of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Meghadutam with Sanskrit text and Hindi Commentary by Pt. Vaidyanath Jha Shastri (उद्गम)

DevanagariHindipublished335 पृष्ठ

पृष्ठ 145, कुल 335 में से

संदर्भ में पढ़ें
पृष्ठ 145

१०६ मेघदूतम्

हुई एवं गम्भीरा का नायिका के साथ आर्थ सादृश्य होने से यहाँ 'एकदेशविवर्तनी' उपमाऽलङ्कार हुआ और 'कुमुदविशदानि' यहाँ वत् इवादि का लोप होने से लुप्तोपमा हुई एवं उद्वर्तनों में प्रेक्षितों का आरोप होने से 'रूपक' मलङ्कार हुआ और इन तीनों का अङ्गाङ्गिभाव संकर है ॥ ४० ॥

तस्याः किञ्चित्करधृतमिव प्राप्तवानीरशाखं नीत्वा नीलं सलिलवसनं मुक्तरोधोनितम्बम् । प्रस्थानं ते कथमपि सखे ! लम्बमानस्य भावि ज्ञातस्वादो विवृतजघनां को विहातुं समर्थः ॥४१॥

अन्वयः—हे सखे ! प्राप्तवानीरशाखम् किञ्चित्करधृतम् इव मुक्त-रोधो-नितम्बम् नीलम् तस्याः सलिलवसनम् नीत्वा लम्बमानस्य ते प्रस्थानम् कथमपि भावि ज्ञातस्वादः कः विवृतजघनाम् विहातुम् समर्थः ॥ ४१ ॥

व्याख्या—हे सखे = हे मित्र ! प्राप्तवानीरशाखम् = लब्ध-वेतसशाखम्, किञ्चित्करधृतम् = ईषत् हस्तगृहीतम्, इव = यथा (स्थितम्), मुक्त-रोधो-नितम्बम् = परित्यक्ततटकटि, नीलम् = श्यामलम्, तस्याः = गम्भीरायाः, सलिलवसनम् = जलाम्बरम्, नीत्वा = अपहृत्य, लम्बमानस्य = जलभारावनतस्य ते = मेघस्य, प्रस्थानम् = प्रयाणम्, कथमपि = केनापि-प्रकारेण, भावि = भविष्यति । यतो हि-ज्ञातस्वादः = अनुभूतकामिनीसंभोगसुखः, कः = पुरुषः, विवृतजघनाम् = प्रदर्शित-कटि-पूर्वभागाम्, विहातुम् = त्यक्तुम्, समर्थः, योग्यः ।

शब्दार्थः—हे सखे = हे मित्र ! प्राप्तवानीरशाखम् = बेंत की शाखाओं को जिसने प्राप्त कर ली हैं, किञ्चित्करधृतम् = कुछ-कुछ हाथ से पकड़े हुए की, इव = तरह, मुक्तरोधोनितम्बम् = जिसने तटरूपी, नितम्ब-प्रदेश को छोड़ दिया है (ऐसे) नीलम् = नीले रंग के, सलिलवसनम् = जलरूपी वस्त्रों को, नीत्वा = हटाकर, लम्बमानस्य = जल के भार से अवनत, ते = तुम्हारा, प्रस्थानम् = नाना, कथमपि = किसी प्रकार अर्थात् कष्ट से, भावि = होगा । (क्योंकि) ज्ञातस्वादः = जिसने स्त्री के संभोग के सुख का अनुभव कर लिया है ऐसे