मेघदूतम् (वैद्यनाथ झा शास्त्री हिन्दी टीका सहित)
Meghadutam of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Meghadutam with Sanskrit text and Hindi Commentary by Pt. Vaidyanath Jha Shastri (उद्गम)
पृष्ठ 156, कुल 335 में से
संदर्भ में पढ़ेंपूर्वमेघः ११७
प्रेक्षिष्यन्ते गगनगतयो नूनमावर्ज्य दृष्टो-
रेकं मुक्तागुणमिव भुवः स्थूलमध्येन्द्रनीलम् ॥ ४६ ॥
अन्वयः—शार्ङ्गिणः वर्णचौरे त्वयि जलम् आदातुम् अवनते पृथुमपि दूरभावात् तनुम् तस्याः सिन्धोः प्रवाहम् गगनगतयः दृष्टीः आवर्ज्य एकम् स्थूलमध्येन्द्रनीलम् भुवः मुक्तागुणम् इव नूनम् प्रेक्षिष्यन्ते ।
व्याख्या—शार्ङ्गिणः = श्रीकृष्णस्य; वर्णचौरे = कान्ति-चौरे, समान-वर्णके इति भावः, त्वयि = मेघे, जलम् = तोयम्, आदातुम् = ग्रहीतुम्, अवनते = लम्बिते सति, पृथुमपि = स्थूलमपि, दूरभावात् = विप्रकृष्टत्वात्, तनुम् = सूक्ष्ममिवाभासमानम्, तस्याः = पूर्वंकथितायाः, सिन्धोः = एतन्नामिकायाः नद्याः, प्रवाहम् = वेगम्, गगनगतयः = खेचराः, सिद्धादयः इत्यर्थः, दृष्टीः = नेत्राणि, आवर्ज्यं = संनियम्य, एकम् = एकयष्टिकम्, स्थूलमध्येन्द्रनीलम् = पृथुमध्यमणीभूतेन्द्रनीलम्, भुवः = पृथिव्याः, मुक्तागुणम् = मौक्तिकहारम्, इव = यथा, नूनम् = अवश्यम्, प्रेक्षिष्यन्ते = अवलोकयिष्यन्ति ।
शब्दार्थः—शार्ङ्गिणः = श्रीकृष्ण के, वर्णचौरे = रंग को चुराने वाले अर्थात् श्यामरंगवाले, त्वयि = तुम्हारे, जलम् = जल, आदातुम् = लेने के लिए, अवनते = नीचे झुकने, ( उतरने पर ), पृथुमपि = विशाल होने पर भी, दूरभावात् = दूर होने के कारण, तनुम् = छोटे से दीखने वाले, तस्याः = उस पहले कही गयी, सिन्धोः = सिन्धु (चर्मण्वती) नदी के, प्रवाहम् = प्रवाह को, गगनगतयः = आकाशचारी सिद्धगन्धर्वादि, दृष्टीः = नजरों का ( आँखों को ), आवर्ज्यं = केन्द्रित कर, एकम् = एक नदी वाली, स्थूलमध्येन्द्रनीलम् = जिसके बड़े मणियों के मध्य एक इन्द्रनीलमणि लगा है (ऐसे ) भुवः = पृथ्वी को, मुक्तागुणम् = मोती की माला के, इव = समान, नूनम् = अवश्य, प्रेक्षिष्यन्ते = देखेंगे ।
भावार्थः—हे मेघ ! कृष्णसमानवर्णके त्वयि तोयाऽऽदातुमवनते सति गगनचारिणः सिद्धादयः विशालमपि विप्रकृष्टत्वात् सिन्धोः तनुमिव प्रतीयमानं प्रवाहम्, एकयष्टिकामिन्द्रनीलमणियुक्तां पृथिव्याः मालामिव त्वां दृष्टीः नियम्य प्रेक्षिष्यन्ते ।