भारतकोश
मेघदूतम् (वैद्यनाथ झा शास्त्री हिन्दी टीका सहित)

मेघदूतम् (वैद्यनाथ झा शास्त्री हिन्दी टीका सहित)

Meghadutam of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Meghadutam with Sanskrit text and Hindi Commentary by Pt. Vaidyanath Jha Shastri (उद्गम)

DevanagariHindipublished335 पृष्ठ

पृष्ठ 163, कुल 335 में से

संदर्भ में पढ़ें
पृष्ठ 163
१२४मेघदूतम्

अन्वयः—बन्धुप्रीत्या समरविमुखः लाङ्गली अभिमतरसाम् रेवतीलोचनाङ्काम् हालाम् हित्वा याः सिषेवे । हे सौम्य ! त्वम् अपि तासाम् सारस्वतीनाम् अपाम् अभिगमम् कृत्वा अन्तःशुद्धः वर्णमात्रेण कृष्णः भविता ।

व्याख्या —बन्धुप्रीत्या = संबन्धिस्रेहेन, न तु भीरुतया, समरविमुखः = युद्धपराङ्मुखः, लाङ्गली = बलरामः, अभिमतरसाम् = इष्टस्वादान्, रेवतीलोचनाङ्काम् = स्वप्रियानयनाङ्किताम्, हालाम् = मदिराम्, हित्वा = त्यक्त्वा, याः = सरस्वतीआपः, सिषेवे = सेवितवान्' पपावित्यर्थः । हे सौम्य ! = हे भद्र ! त्वम् = मेघः अपि, तासाम् = पूर्वकथितानाम्. सारस्वतीनाम् = सरस्वतीसंबन्धिनीनाम् अपाम् = तोयानाम्, अभिगमम् = सम्मुखगमनम्, पानमित्यर्थः, कृत्वा = विधाय, अन्तः-शुद्धः = निर्मलान्तः-करणः सन्, वर्णमात्रेण = शारीरिकरूपेणैव, कृष्णः = श्यामः, न तु हृदयेनापि कृष्णः पापी इति भावः । भविता = भविष्यसि ।

शब्दार्थः—बन्धुप्रीत्या = बान्धवप्रेम से, चूंकि कौरव-पाण्डव संबन्धी थे इस स्नेह से न कि भय से, समरविमुखः = युद्ध से विमुख, लाङ्गली = बलराम ने, अभिमतरसाम् = इष्टस्वादवाली, रेवतीलोचनाङ्काम् = अपनी प्रिया की आँखों ( की छाया ) से चिह्नित, हालाम् = मदिरा को, हित्वा = छोड़कर, याः = जिसका ( सरस्वती के जल का ), सिषेवे = सेवन किया था, अर्थात् पान किया था । हे सौम्य = हे भद्र, त्वम् = तुम, अपि = भी, तासाम् = उस, सारस्वतीनाम् = सरस्वती के, अपाम् = जलों का, अभिगमम् = सेवन, कृत्वा = करके अर्थात् उसका पान करके, अन्तःशुद्धः = निर्मलान्तःकरण वाले होकर, वर्णमात्रेण = केवल रंग से, न कि हृदय से भी, कृष्णः = श्यामवर्ण के, भविता = हो जाओगे ।

भावार्थः—हे सौम्य ! बान्धव प्रेम्णा समरपराङ्मुखो हलधरः अभीष्टस्वादां स्वप्रियानयनप्रतिबिम्बितां मदिरां त्यक्त्वा याः सारस्वतीः अपः पपौ । त्वमपि तेषां सारस्वतीनाम् अपां पानं कृत्वा निर्मलान्तः-करणः सन् रूपेणैव ( न तु हृदयेन ) श्यामो भविता ।

हिन्दी—हे सज्जन ! बान्धव-स्नेह के कारण युद्ध से विरत बलराम ने अपनी इच्छित स्वादवाली, अपनी प्रिया के नेत्रों के प्रतिबिम्ब से चिह्नित मदिरा को छोड़कर जिस सरस्वती के जल का सेवन किया था । तुम भी उस जल का