मेघदूतम् (वैद्यनाथ झा शास्त्री हिन्दी टीका सहित)
Meghadutam of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Meghadutam with Sanskrit text and Hindi Commentary by Pt. Vaidyanath Jha Shastri (उद्गम)
पृष्ठ 163, कुल 335 में से
संदर्भ में पढ़ें| १२४ | मेघदूतम् |
|---|
अन्वयः—बन्धुप्रीत्या समरविमुखः लाङ्गली अभिमतरसाम् रेवतीलोचनाङ्काम् हालाम् हित्वा याः सिषेवे । हे सौम्य ! त्वम् अपि तासाम् सारस्वतीनाम् अपाम् अभिगमम् कृत्वा अन्तःशुद्धः वर्णमात्रेण कृष्णः भविता ।
व्याख्या —बन्धुप्रीत्या = संबन्धिस्रेहेन, न तु भीरुतया, समरविमुखः = युद्धपराङ्मुखः, लाङ्गली = बलरामः, अभिमतरसाम् = इष्टस्वादान्, रेवतीलोचनाङ्काम् = स्वप्रियानयनाङ्किताम्, हालाम् = मदिराम्, हित्वा = त्यक्त्वा, याः = सरस्वतीआपः, सिषेवे = सेवितवान्' पपावित्यर्थः । हे सौम्य ! = हे भद्र ! त्वम् = मेघः अपि, तासाम् = पूर्वकथितानाम्. सारस्वतीनाम् = सरस्वतीसंबन्धिनीनाम् अपाम् = तोयानाम्, अभिगमम् = सम्मुखगमनम्, पानमित्यर्थः, कृत्वा = विधाय, अन्तः-शुद्धः = निर्मलान्तः-करणः सन्, वर्णमात्रेण = शारीरिकरूपेणैव, कृष्णः = श्यामः, न तु हृदयेनापि कृष्णः पापी इति भावः । भविता = भविष्यसि ।
शब्दार्थः—बन्धुप्रीत्या = बान्धवप्रेम से, चूंकि कौरव-पाण्डव संबन्धी थे इस स्नेह से न कि भय से, समरविमुखः = युद्ध से विमुख, लाङ्गली = बलराम ने, अभिमतरसाम् = इष्टस्वादवाली, रेवतीलोचनाङ्काम् = अपनी प्रिया की आँखों ( की छाया ) से चिह्नित, हालाम् = मदिरा को, हित्वा = छोड़कर, याः = जिसका ( सरस्वती के जल का ), सिषेवे = सेवन किया था, अर्थात् पान किया था । हे सौम्य = हे भद्र, त्वम् = तुम, अपि = भी, तासाम् = उस, सारस्वतीनाम् = सरस्वती के, अपाम् = जलों का, अभिगमम् = सेवन, कृत्वा = करके अर्थात् उसका पान करके, अन्तःशुद्धः = निर्मलान्तःकरण वाले होकर, वर्णमात्रेण = केवल रंग से, न कि हृदय से भी, कृष्णः = श्यामवर्ण के, भविता = हो जाओगे ।
भावार्थः—हे सौम्य ! बान्धव प्रेम्णा समरपराङ्मुखो हलधरः अभीष्टस्वादां स्वप्रियानयनप्रतिबिम्बितां मदिरां त्यक्त्वा याः सारस्वतीः अपः पपौ । त्वमपि तेषां सारस्वतीनाम् अपां पानं कृत्वा निर्मलान्तः-करणः सन् रूपेणैव ( न तु हृदयेन ) श्यामो भविता ।
हिन्दी—हे सज्जन ! बान्धव-स्नेह के कारण युद्ध से विरत बलराम ने अपनी इच्छित स्वादवाली, अपनी प्रिया के नेत्रों के प्रतिबिम्ब से चिह्नित मदिरा को छोड़कर जिस सरस्वती के जल का सेवन किया था । तुम भी उस जल का