मेघदूतम् (वैद्यनाथ झा शास्त्री हिन्दी टीका सहित)
Meghadutam of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Meghadutam with Sanskrit text and Hindi Commentary by Pt. Vaidyanath Jha Shastri (उद्गम)
पृष्ठ 165, कुल 335 में से
संदर्भ में पढ़ें१२६ मेघदूतम्
तस्मात् गच्छेरनुकनखलं शैलराजावतीर्णां
जह्नोः कन्यां सगरतनयस्वर्गसोपान-पंक्तिम् ।
गौरीवक्त्रभ्रुकुटिरचनां या विहस्येव फेनैः
शम्भोः केशग्रहणमकरोदिन्दुलग्नोर्मिहस्ता ॥ ५० ॥
अन्वयः — तस्मात् अनुकनखलम् शैलराजाऽवतीर्णाम् सगर तनय-स्वर्ग-सोपानपंक्तिम् जह्नोः कन्याम् गच्छ । या गौरीवक्त्रभ्रुकुटिरचनाम् फेनैः विहस्य इव इन्दुलग्नोर्मिहस्ता शम्भोः केशग्रहणम् अकरोत् ।
व्याख्या — तस्मात् = कुरुक्षेत्रात्, अनुकनखलम् = कनखलतीर्थ-समीपे, शैलराजाऽवतीर्णाम् = हिमालयनिःसृताम्, सगरतनयस्वर्गसोपानपङ्क्तिम् = सगर-पुत्रव्योमगमनारोहणशृङ्खलाम् स्वर्गसाधनभूतामिति भावः । जह्नोः = एतन्नाम-कस्य राज्ञः, कन्याम् = पुत्रीम् जाह्नवीं गङ्गामित्यर्थः । गच्छेः = यायाः । या = जाह्नवी, गौरीवक्त्र-भ्रुकुटिरचनाम् = पार्वतीवदनभ्रूभङ्गर्निमिताम्, फेनैः = डिण्डीरैः विहस्य इव = उपहासं कृत्वेव; इन्दुलग्नोर्मिहस्ता = चन्द्रसंलग्नवीचिकरा (सती), शम्भोः = शंकरस्य, केशग्रहणम् = जटाग्रहणम्, अकरोत् = चकार ।
शब्दार्थः — तस्मात् = कुरुक्षेत्र से ( आगे ), अनुकनखलम् = कनखलतीर्थ के समीप, शैलराजाऽवतीर्णाम् = हिमालय से उतरी, सगरतनयस्वर्गसोपानपङ्क्तिम् = सगर राजा के पुत्रों के लिए स्वर्ग की सीढ़ी के समान, जह्नोः = जह्नु-नामक राजा की, कन्याम् = लड़की, जाह्नवी गङ्गा के पास, गच्छेः = जाना । या = जिस गङ्गाने, गौरीवक्त्र-भ्रुकुटि-रचनाम् = पार्वतीके मुख में ( ईर्ष्यावश उत्पन्न ) भ्रुकुटि रचना का, फेनैः = फेन के द्वारा, विहस्य इव = उपहास-सी करती हुई, इन्दुलग्नोर्मिहस्ता = चन्द्रमा को स्पर्श करते हुए लहररूपी हाथों वाली, शम्भोः = शिवजी का, केशग्रहणम् = जटा-जूट ग्रहण, अकरोत् = की है ।
भावार्थः — हे मेघ ! कुरुक्षेत्रादग्रे कनखलतीर्थ-समीपे सगरपुत्राणां कृते स्वर्गसोपानभूतां जाह्नवीं गच्छ । या जाह्नवी, ( पतिशिरःस्थितत्वात् ) पार्वती-मुखे उत्पन्नभ्रुकुटिरचनां फेनैः उपहासं कृत्वेव चन्द्रसंस्पर्शन-शीलोर्मिकरा (सती) शिवजटाजूटग्रहणं कृतवती ।