भारतकोश
मेघदूतम् (वैद्यनाथ झा शास्त्री हिन्दी टीका सहित)

मेघदूतम् (वैद्यनाथ झा शास्त्री हिन्दी टीका सहित)

Meghadutam of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Meghadutam with Sanskrit text and Hindi Commentary by Pt. Vaidyanath Jha Shastri (उद्गम)

DevanagariHindipublished335 पृष्ठ

पृष्ठ 170, कुल 335 में से

संदर्भ में पढ़ें
पृष्ठ 170
पूर्वमेघः१३१

आसीनानां सुरभितशिलं नाभिगन्धैर्मृगाणां
तस्या एव प्रभवमचलं प्राप्य गौरं तुषारैः ।
वक्ष्यस्यध्वश्रमविनयने तस्य शृङ्गे निषण्णः
शोभां शुभ्र-त्रिनयन--वृषोत्खातपङ्कोपमेयाम् ॥ ५२ ॥

अन्वयः—आसीनानाम् मृगाणाम् नाभिगन्धैः सुरभितशिलम् तस्याः एव प्रभवम् तुषारैः गौरम् अचलम् प्राप्य अध्वश्रमविनयने तस्य शृङ्गे निषण्णः शुभ्र-त्रिनयन-वृषोत्खात-पङ्कोपमेयाम् शोभाम् वक्ष्यसि ।

व्याख्या—आसीनानाम्=स्थितानाम्, मृगाणाम्=कुरङ्गाणाम्, गन्धमृगाणामिति भावः । नाभिगन्धैः=कस्तूरिकागन्धैः, सुरभितशिलम्=सुगन्धितप्रस्तरम्, तस्याः=गङ्गायाः, एव प्रभवम्=उत्पत्तिस्थलम्, तुषारैः=हिमैः, गौरम्=धवलम्, अचलम्=पर्वतम्, प्राप्य=आसाद्य, हिमालयं गत्वेत्यर्थः, अध्वश्रमविनयने=मार्गपरिश्रमापनोदने, तस्य=हिमालयस्य, शृङ्गे=सानौ, निषण्णः=उपविष्टः ( सन्, त्वम् ) शुभ्रत्रिनयनवृषोत्खातपङ्कोपमेयाम्=श्वेतशिववृषभविदारितकर्दमतुल्याम्, शोभाम्=श्रियम्, वक्ष्यसि=धारयिष्यसि ।

शब्दार्थः—आसीनानाम्=बैठे हुए, मृगाणाम्=हिरणों के (गन्धमृगों के), नाभिगन्धैः=कस्तूरी की सुगन्धि से, सुरभितशिलम्=सुगन्धित पत्थरवाले, तस्याः एव=उस गङ्गा के ही, प्रभवम्=उत्पत्ति स्थान, तुषारैः=बर्फों से, गौरम्=उजले, अचलम्=पर्वत को अर्थात् हिमालय को, प्राप्य=प्राप्त करके, अध्वश्रमविनयने=मार्ग के परिश्रम को दूर करने मे, तस्य=उस हिमालय की, शृङ्गे=चोटी पर, निषण्णः=बैठे हुए ( तुम ), शुभ्रत्रिनयनवृषोत्खातपङ्कोपमेयाम्=शिवजी के उजले नन्दी के द्वारा विदीर्ण की गयी कीचड़ की तरह, शोभाम्=शोभा को, वक्ष्यसि=धारण करोगे ।

भावार्थः—हे मेघ ! तदनन्तरमुपविष्टानां गन्धमृगाणां कस्तूरिकागन्धैः सुरभितप्रस्तरे गङ्गापितरि हिमशुक्ले पर्वते हिमालये मार्गपरिश्रमापनोदनायोपविष्टस्त्वं शिवस्य श्वेतनन्दिनोत्खातकर्दमशोभां प्राप्स्यसि ।