मेघदूतम् (वैद्यनाथ झा शास्त्री हिन्दी टीका सहित)
Meghadutam of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Meghadutam with Sanskrit text and Hindi Commentary by Pt. Vaidyanath Jha Shastri (उद्गम)
पृष्ठ 176, कुल 335 में से
संदर्भ में पढ़ेंपूर्वमेघः १३७
ओलों की घोर वृष्टि से तितर-बितर, कुर्वीथाः=कर देना । निष्फलारम्भयत्नाः=व्यर्थ के कामों को करने का प्रयास करने वाले, के वा=कौन जन्तु, परिभव-पदम्=अपमान के पात्र, न स्युः=नहीं होते ।
भावार्थः—हे मेघ ! क्रोधेणोत्पतनत्वात् वेगशीलाः शरभाः त्यक्तमार्गं भवन्तं यदि निजगात्रविक्षताय अतिक्रमणं कुर्युस्तर्हि त्वमपि करकानां तुमुल-वृष्टिभिस्तान् विप्रकीर्णान् कुरुष्व । व्यर्थव्यापारसंलग्नाः के प्राणिनः तिरस्कार-भाजनाः न भवन्ति । अर्थात् सर्वेऽपि भवन्त्येवेतिभावः ।
हिन्दी—हे मेघ ! क्रोध से कूदने के कारण वेगवाले शरभ ( जिनकी आठ टाँगें होती हैं) छोड़ दिया है मार्ग को जिसने ऐसे तुम्हारा यदि अपने ही अङ्गों को विनष्ट करने के लिए अतिक्रमण करें तो तुम ओलों की घोर वर्षा से उन्हें तितर-वितर कर देना; क्योंकि व्यर्थ के कामों को करने का प्रयास करने वाले कौन अपमान के पात्र नहीं होते ? अर्थात् सब होते ही हैं ।
समासः—संरम्भेण उत्पतनम्=संरम्भोत्पतनम् (तृ० तत्०) संरम्भोत्पतने रभसः येषान्ते संरम्भोत्पतनरभसाः ( बहु० ) । मुक्तः अध्वा येन स मुक्ताध्वा ( बहु० ) तम् । अङ्गानां भङ्गः अङ्गभङ्गः ( ष० तत्० ) स्वस्य अङ्गभङ्गः स्वाङ्गभङ्गः ( ष० तत्० ) तस्मै । तमुलाश्च ताः करकाः = तुमुल-करकाः (कर्मधारय) तासां वृष्टिः तुमुल-करका-वृष्टिः (ष० तत्) तस्याः पातः (ष० तत्) तेन अवकीर्णाः तुमुलकरकावृष्टिपाताऽवकीर्णाः ( तृ० तत्० ) तान् । आरम्भेषु यत्नः = आरम्भयत्नः (स० तत्०) निष्फल आरम्भयत्नः येषान्ते निष्फलारम्भ-यत्नाः ( बहु० ) । परिभवस्य पदम् परिभवपदम् ( ष० तत्० ) ।
कोशः—रभसो हर्षवेगयोः, इति विश्वः । द्राक्झटित्याजसाह्वाय द्राङ्मंक्षु सपदिद्रुते, इत्यमरः, सद्यः सपदि तत्क्षणे इति च । तुमुलं रण-संकुले, इत्यमरः । स्युपुंनर्वे वेत्यवधारण-वाचकाः, इत्यमरः । वर्षोपलस्तु करको-करकाऽपि च दृश्यते, इत्यमरः, इति रुद्रः ।
टिप्पणी—संरम्भः=संरम्भणं संरम्भः—यहाँ भाव में सम् उपसर्गपूर्वक “रभ्” धातु से घञ् प्रत्यय किया गया है। शरभाः—“शरभः शलभे चाऽष्टापदे