मेघदूतम् (वैद्यनाथ झा शास्त्री हिन्दी टीका सहित)
Meghadutam of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Meghadutam with Sanskrit text and Hindi Commentary by Pt. Vaidyanath Jha Shastri (उद्गम)
पृष्ठ 189, कुल 335 में से
संदर्भ में पढ़ें१५० | मेघदूतम्
( त्वम् ) मणितटाऽऽरोहणाय = रत्न-तटाऽऽरोहणाय, सोपानत्वम् = शृङ्खला-भावम्, कुरु = विधेहि। सोपानरूपस्त्वं भव इति भावः।
शब्दार्थः—तस्मिन् = उस, क्रीडाशैले = केलिपर्वत ( कैलास ) पर, भुजग-वलयम् = सर्प के कंगन को, हित्वा = छोड़कर, शम्भुना = शिवजी के द्वारा, दत्तहस्ता = हाथ का सहारा दी गयी, गौरी = पार्वती, पादचारेण = पैरों से, विचरेत् = चलें, यदि, तर्हि = तो, अग्रयायी = आगे-आगे चलते हुए, स्तम्भि-तान्तर्जलोघः = भीतर जल के प्रवाह को रोके हुए, भंगीभक्त्या = पौड़ियों के क्रम से, विरचित-वपुः = शरीर की रचना वाले ( तुम )। मणितटारोहणाय = मणि तट पर चढ़ने के लिए, सोपानत्वम् कुरु = सीढ़ी का काम करना।
भावार्थः—हे मेघ ! तस्मिन् केलिपर्वते कैलासे ( भयापनोदनाय ) कङ्कणं परित्यज्य शिवेन प्राप्तकरावम्बा पार्वती यदि पद्भ्यां विहरेत् तर्हि अग्रेसरः अवरुद्धान्तर्जैलसमूहस्त्वं स्वशरीरेण पर्वरचनां कृत्वा मणितटारोहणाय सोपानरूपो भव।
हिन्दी—हे मेघ ! उस क्रीड़ा पर्वत ( कैलास ) पर साँप के कंगन को छोड़कर शिवजी के द्वारा हाथ का सहारा दी गयी पार्वती यदि पैदल चलें तो तुम आगे-आगे चलते हुए, भीतर जल के प्रवाह को रोके हुए, अपने शरीर के द्वारा पौड़ियों की रचना कर मणितट पर चढ़ने के लिए सीढ़ी का काम करना।
समासः—क्रीडायाः शैलः = क्रीडाशैलः ( ष० तत्० ) तस्मिन्। भुजग एव वलयम् = भुजगवलयम् (कर्मधारणः) दत्तः हस्तो यस्यै सा दत्तहस्ता ( बहु० ) जलानाम् ओघः = जलौघः ( ष० तत्० ) अन्तः स्थितः जलौघः = अन्तर्जलोघः (मध्यमपदलोपी) स्तम्भितः अन्तर्जलोघः येन सः स्तम्भितान्तर्जलोघः (बहु०)। विरचितं वपुर्येन सः विरचितवपुः ( बहु० ) भङ्गीनां भक्ति = भङ्गीभक्तिः ( ष० तत्० ) तया। मणीनां तटम् = मणितटम् (ष० तत्०) मणितटे आरोहणं मणितटारोहणम् ( ष० तत्० ) तस्मै।
कोशः—आवापकः परिहार्यः कटकी वलयोऽस्त्रियाम्, इत्यमरः। निकर-व्रातवार-संघात-सञ्चयाः, इत्यमरः। आरोहणं स्यात् सोपानम्, इत्यमरः।