मेघदूतम् (वैद्यनाथ झा शास्त्री हिन्दी टीका सहित)
Meghadutam of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Meghadutam with Sanskrit text and Hindi Commentary by Pt. Vaidyanath Jha Shastri (उद्गम)
पृष्ठ 194, कुल 335 में से
संदर्भ में पढ़ेंपूर्वमेघः १५५
आधार पर धातु के "अन्" का लोप होकर "अम्भोज" ऐसा रूप बनता है। हेम्नः अम्भोजानि—हेमाम्भोजानि। प्रसवि-“प्र” उपसर्गपूर्वक प्रसवार्थक (भू०) “सू” धातु से “जिदृक्षि विश्रीण्वमाव्यथाम्यभपरिभूप्रसूभ्यश्च” इस सूत्र से “इनि” प्रत्यय करके गुणादि करके “प्रसवि” ऐसा रूप निष्पन्न होता है। आददान-“आङ्” उपसर्गपूर्वक दा धातु से लट् लकार के स्थान पर “शानच्” प्रत्यय का विधान कर “आददान” ऐसा रूप बनता है। धुन्वन्—कम्पनार्थक “धु” धातु से लट् के स्थान पर “शतृ” आदेश करके “धुन्वन्” ऐसा रूप बनता है। निर्विशेः-“निर्” उपसर्गपूर्वक “विशृ” धातु के विधिलिङ् के मध्यमपुरुष के एकवचन का यह रूप है।
अलङ्कारः-“अंशुकानीव' यहाँ उत्प्रेक्षा अलंकार है ॥ ६२ ॥
तस्योत्सङ्गे प्रणयिन इव स्रस्तगंगादुकूलां
न त्वं दृष्ट्वा न पुनरलकां ज्ञास्यसे कामचारिन् ।
याबः काले वहति सलिलोद्गारमुच्चैर्विमाना
मुक्ताजालग्रथितमलकं कामिनीवाभ्रवृन्दम् ॥ ६३ ॥
अन्वयः—हे कामचारिन् प्रणयिन इव तस्य उत्सङ्गे स्रस्त-गंगादुकूलाम् अलकाम् दृष्ट्वा त्वं पुनः न ज्ञास्यसे न । उच्चैर्विमाना या वः काले सलिलोद्गारम् अभ्रवृन्दम् कामिनी मुक्ताजालग्रथितम् अलकमिव वहति ।
व्याख्या—हे कामचारिन् = हे स्वेच्छाचारिन् ! प्रणयिनः = प्रियतमस्य, इव = यथा, तस्य = कैलासस्य, उत्सङ्गे = क्रोडे, स्रस्तगङ्गादुकूलाम् = च्युतजाह्नवीवस्त्राम्, अलकाम् = कुबेरनगररीम्, प्रियामिवेति शेषः । दृष्ट्वा = विलोक्य, त्वं = मेघः, पुनः = भूयः, न = नहि, ज्ञास्यसे = परिचेष्यसे (इति) तु न = नहि, अर्थात् अवश्यं ज्ञास्यसे इति ध्वनिः । उच्चैर्विमाना = उन्नतसप्तभूमिभवनवती, या = अलका, वः = युष्माकम्, काले = समये वर्षतौ इत्यर्थः ।