भारतकोश
मेघदूतम् (वैद्यनाथ झा शास्त्री हिन्दी टीका सहित)

मेघदूतम् (वैद्यनाथ झा शास्त्री हिन्दी टीका सहित)

Meghadutam of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Meghadutam with Sanskrit text and Hindi Commentary by Pt. Vaidyanath Jha Shastri (उद्गम)

DevanagariHindipublished335 पृष्ठ

पृष्ठ 204, कुल 335 में से

संदर्भ में पढ़ें
पृष्ठ 204

उत्तरमेघः १६३

( यत्रोन्मत्तभ्रमरमुखराः पादपाः नित्यपुष्पाः
हंसश्रेणीरचितरशना नित्यपद्मा नलिन्यः ।
केकोत्कण्ठा भवन-शिखिनो नित्यभास्वत्कलापा
नित्यज्योत्स्नाः प्रतिहततमोवृत्तिरम्यः प्रदोषाः ।१।)

अन्वयः—यत्र, पादपाः, नित्यपुष्पाः, उन्मत्त-भ्रमरमुखराः, नलिन्यः, नित्यपद्माः, हंसश्रेणीरचितरशनाः, भवनशिखिनः, नित्यभास्वत्कलापाः, केकोत्कण्ठाः प्रदोषाः, नित्यज्योत्स्नाः, प्रतिहततमोवृत्तिरम्यः ॥ १ ॥

व्याख्या—यत्र = अलकायाम्, पादपः = वृक्षाः, नित्यपुष्पाः = सदाकुसुम-शालिनः, अत एव उन्मत्तभ्रमरमुखराः = उत्कटषट्पदशब्दायमानाः, नलिन्यः = कमलिन्यः, नित्यपद्माः = अनवरतकमलाः, अत एव हंसश्रेणी-रचितरशनाः = हंसपङ्क्ति-विरचितमेखलाः, भवनशिखिनः = गृहमयूराः नित्यभास्वत्कलापाः निरन्तरप्रकाशमानबर्हाः, केकोत्कण्ठाः = स्ववाणीभिरुद्ग्रीवाः, प्रदोषाः = रात्रयः नित्य-ज्योत्स्नाः = अनवरत-चन्द्रिकाः, प्रतिहततमोवृत्तिरम्याः = विनष्टान्धका-रत्वान्मनोहराश्च सन्ति ॥ १ ॥

शब्दार्थः—यत्र = जिस अलका में, पादपाः = वृक्ष, नित्यपुष्पाः = सदा फूलों से सम्पन्न, उन्मत्तभ्रमरमुखराः = मस्त भँवरों से शब्दायमान, नलिन्यः = कमल लताएँ, नित्यपद्माः = नित्य कमलों से युक्त, हंसश्रेणी-रचितरशनाः = हंस-पंक्तियों की करधनी बनाए अर्थात् हंस से परिवेष्टित (हैं), भवन-शिखिनः घर के (पालतू) मोर, नित्यभास्वत्कलापाः = सदा चमकनेवाले पंखों से युक्त, केकोत्कण्ठाः = शब्द करते समय ऊपर की ओर गर्दन किये हुए हैं, प्रदोषाः = रात्रि, नित्यज्योत्स्नाः = अनवरत चांदनी वाली, प्रतिहततमोवृत्तिरम्याः = अन्धकार-समूह को नष्ट कर देने के कारण मनोहर रहती हैं।

भावार्थः—हे मेघ ! यस्यामलकायां पादपाः सर्वदा कुसुमपूर्णाः अत एव उन्मत्तमधुकरैः शब्दायमानाः, पद्मिन्यः सततं कमलयुक्ताः, हंसश्रेणिभिः परि-