भारतकोश
मेघदूतम् (वैद्यनाथ झा शास्त्री हिन्दी टीका सहित)

मेघदूतम् (वैद्यनाथ झा शास्त्री हिन्दी टीका सहित)

Meghadutam of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Meghadutam with Sanskrit text and Hindi Commentary by Pt. Vaidyanath Jha Shastri (उद्गम)

DevanagariHindipublished335 पृष्ठ

पृष्ठ 207, कुल 335 में से

संदर्भ में पढ़ें
पृष्ठ 207

१६६ मेघदूतम्

व्याख्या—हे मेघ ! यत्र = अलकायाम्, वित्तेशानाम् = वित्ताधिपानां यक्षाणामित्यर्थः, आनन्दोत्थम् = हर्षोद्भवम्, नयनसलिलम् = नेत्राम्बु, "अस्ति" इति तु सर्वत्र योज्यम्, अन्यैः = अपरैः, निमित्तैः = हेतुभिः, न = नहि वर्तते । इष्टसंयोगसाध्यात् = प्रियसमागम-निवर्तनीयात्, कुसुमशरजात् = कामोद्भवात्, अन्यः = अपरः, तापः = संतापः, न नहि वर्तते । प्रणयकलहात् = प्रेम-( केलि ) विग्रहात्, अन्यस्मात् = अपरस्मात्, विप्रयोगोपपत्तिः = विश्लेषप्राप्तिः, अपि, न = वर्तते; यौवनात् = तारुण्यात्, अन्यत् = अपरम्, वयः = अवस्था न अस्ति = न वर्तते, खलु = निश्चयेन ।

शब्दार्थः—यत्र = जिस अलका में, वित्तेशानाम् = यक्षों के, नयनसलिलम् = नेत्रजल, अश्रु, आनन्दोत्थम् = हर्ष से उत्पन्न हैं, अन्यैः = दूसरे, निमित्तैः = कारणों से, न = नहीं, इष्टसंयोगसाध्यात् = प्रियजनों के समागम से दूर हो सकनेवाले, कुसुमशरजात् = काम से उत्पन्न, अन्यः = भिन्न, तापः = संताप, न = नहीं, प्रणयकलहात् = प्रणयकालिक झगड़े से, अन्यस्मात् = भिन्न ( किसी कारण से ), विप्रयोगोपपत्तिः = विरह की प्राप्ति, न = नहीं है, यौवनात् = जवानी से, अन्यत् = भिन्न दूसरी, वयः = उम्र, न अस्ति = नहीं है, अर्थात् वृद्धावस्था नहीं है ।

भावार्थः—हे मेघ ! यस्यामलकायां यक्षाणां हर्षजन्यमेव नेत्राम्बु नान्य-निमित्तोद्भवम्, कामोत्पन्न एव सन्तापः नान्योद्भवः, प्रणयकलहादेव विरह-प्राप्तिर्नतु अन्यस्मात् कारणात्, एवञ्च तारुण्यादपरं वयः न वर्तते नतु वृद्धत्वा-दिकमपि इति भावः ।

हिन्दी—हे मेघ ! जिस अलका में यक्षों को हर्षजन्य ही नेत्रजल ( अश्रु ) निकलते हैं न किसी और कारणों से, प्रियजन-समागम से दूर होनेवाला काम से ही उत्पन्न संताप है न कि किसी और कारणों से, प्रणयकलह के कारण ही वियोग की प्राप्ति होती है न कि किसी और कारण से, और जवानी ही एक अवस्था है दूसरी कोई अवस्था ( उम्र ) नहीं ।

समासः—वित्तानाम् ईशः = वित्तेशः ( ष० तत्० ) तेषाम् । नयनयोः सलिलम् नयनसलिलम् ( ष० तत्० ) इष्टैः संयोगः = इष्टसंयोगः ( तृ० तत्० )