भारतकोश
मेघदूतम् (वैद्यनाथ झा शास्त्री हिन्दी टीका सहित)

मेघदूतम् (वैद्यनाथ झा शास्त्री हिन्दी टीका सहित)

Meghadutam of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Meghadutam with Sanskrit text and Hindi Commentary by Pt. Vaidyanath Jha Shastri (उद्गम)

DevanagariHindipublished335 पृष्ठ

पृष्ठ 209, कुल 335 में से

संदर्भ में पढ़ें
पृष्ठ 209

१६८ | मेघदूतम्

कुसुमरचितानि हर्म्यस्थलानि एत्य, त्वद्गम्भीरध्वनिषु, पुष्करेषु, शनकैः, आहतेषु कल्पवृक्षप्रसूतम्, रतिफलम्, मधु, आसेवन्ते ॥ ३ ॥

व्याख्यायस्याम् = यत्रालकायाम्, यक्षाः = देवयोनिविशेषधनाधिपाः, उत्तमस्त्रीसहायाः = मनोज्ञ-वनितासहचराः, (सन्तः), सितमणिमयानि = स्फटिकमणिनिर्मितानि, ज्योतिश्छायाकुसुमरचितानि = नक्षत्रप्रतिबिम्ब-रूपपुष्प-परिष्कृतानि, हर्म्यस्थलानि = सौध-शिखराणि, एत्य = गत्वा, त्वद्गम्भीरध्वनिषु = मेघगम्भीरस्तनितेषु, पुष्करेषु = वाद्यपात्रमुखेषु, शनकैः = मन्दम्, आहतेषु = सुताडितेषु, (सत्सु), कल्पवृक्षप्रसूतम् = सुरतरुजातम्, रतिफलम् = एतन्नामकं फलम्, मधु = मद्यम्, आसेवन्ते = पिबन्ति ॥ ३ ॥

शब्दार्थःयस्याम् = जिस अलका नगरी में, यक्षाः = यक्षगण, उत्तमस्त्रीसहायाः = रमणीय स्त्रियों के साथ, सितमणिमयानि = स्फटिक मणि से खचित, ज्योतिश्छायाकुसुमरचितानि = नक्षत्रों के प्रतिबिम्ब रूप फूलों से सजाये गये, हर्म्यस्थलानि = महलों की अटारियों पर, एत्य = जाकर, त्वद्गम्भीरध्वनिषु = तुम्हारे समान गम्भीर शब्द वाले, पुष्करेषु = नगाड़ों के, शनकैः = धीरे-धीरे, आहतेषु = बजाये जाने पर, कल्पवृक्षप्रसूतम् = कल्पवृक्ष से उत्पन्न, रतिफलम् = रतिफल नाम की, मधु = मदिरा का, सेवन्ते = सेवन करते हैं, अर्थात् पीते हैं ॥ ३ ॥

भावार्थः—हे मेघ ! यस्यामलकायां यक्षाः स्फटिकमणिनिर्मितानि नक्षत्र-प्रतिबिम्ब-रूपैः पुष्पैः सज्जीकृतानि सौधशिखराण्येल्य त्वद्गम्भीरध्वनिषु वाद्यभाण्डेषु शनैः शनैः प्रताडितेषु कल्पवृक्षोत्पन्नं रतिफलनामकं मद्यमासेवन्ते ॥ ३ ॥

हिन्दी—हे मेघ ! जिस अलका नगरी में यक्षगण रमणीय रमणियों के साथ स्फटिकमणि से खचित, तारों के प्रतिबिम्बरूपी फूलों से सजाये गये महलों की अटारियों पर जाकर तुम्हारी तरह गम्भीर शब्द वाले नगाड़ों के धीमे-धीमे बजाये जाने पर कल्पवृक्ष से निकले रतिफल नामक मदिरा का सेवन करते हैं ॥ ३ ॥