मेघदूतम् (वैद्यनाथ झा शास्त्री हिन्दी टीका सहित)
Meghadutam of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Meghadutam with Sanskrit text and Hindi Commentary by Pt. Vaidyanath Jha Shastri (उद्गम)
पृष्ठ 225, कुल 335 में से
संदर्भ में पढ़ें| १८४ | मेघदूतम् |
|---|
-भयात्, षट्पदज्यम्, चापम्, प्रायो, न, वहति। तस्य, आरम्भः, सभ्रूभङ्ग- -प्रहितनयनैः, कामिलक्ष्येषु, अमोघैः, चतुर-वनिता-विभ्रमैः, एव सिद्धः ॥ १० ॥
व्याख्या—हे मेघ ! यत्र = यस्यामलकायाम्, मन्मथः = मदनः, धनपति-सखम् = कुबेर-मित्रम्, देवम् = शिवम्, साक्षात् = सद्यः, वसन्तम् = वर्तमानम्, मत्वा = ज्ञात्वा, भयात् = त्रासात्, षट्पदज्यम् = भ्रमरमौर्वीकम्, चापम् = धनुः, प्रायः = अधिकांशतः, न वहति = न धारयति । यदि मन्मथः धनुर्न धारयति तस्य कार्यसिद्धिस्तर्हि कथं भवतीत्याकांक्षायामाह—तस्य = कामस्य, आरम्भः = व्यापारः, सभ्रूभङ्गप्रहितनयनैः = भ्रूभङ्गसहितप्रक्षिप्ता-वलोकनैः, कामिलक्ष्येषु = कामुकशरव्येषु, अमोघैः = सफलैः, अनिष्फलैरिति यावत् । चतुर-वनिताविभ्रमैः = पटुविलासिनीविलासैः, एव, सिद्धः = साधितः ॥ १० ॥
शब्दार्थः—यत्र = जिस अलका में, मन्मथः = कामदेव, धनपतिसखम् = कुबेर के मित्र, देवम् = शङ्कर को, साक्षात् = शरीर रूप से, वसन्तम् = निवास करते हुए, मत्वा = जानकर (न कि देखकर) भयात् = डर से, षट्पदज्यम् = भ्रमरों की ज्या (डोरी) वाले, चापम् = धनुष को, प्रायः न वहति = प्रायः नहीं धारण करता है, तस्य = कामदेव का, आरम्भः = कार्य (तो) सभ्रूभङ्गम् = भ्रूभङ्ग के साथ, प्रहितनयनैः = फेंकी गयी दृष्टि वाले (कटाक्ष), कामिलक्ष्येषु = कामुकपुरुष रूपी लक्ष्यों पर, अमोघैः = निष्फल नहीं होने वाले, चतुर-वनिता-विभ्रमैः = चतुर स्त्रियों के विलासों से ही, सिद्धः = पूरा हो जाता है ॥ १० ॥
भावार्थः—हे मेघ ! यस्यामलकायां कामदेवः स्वसुहृत्प्रेम्णा शङ्कर-शरीरेण वसन्तं ज्ञात्वा भीत्या प्रायः भ्रमरमौर्वीकं चापं न धारयति । तस्य व्यापारस्तु भ्रूभङ्गसहित-प्रक्षिप्तदृष्टिभिः कामिजनेष्वनिर्मोधैः पटुविलासिनी-विलासैः निष्पन्नो भवति ॥ १० ॥
हिन्दी—हे मेघ ! जिस अलका में कामदेव कुबेर के मित्र शङ्कर को शरीर धारण कर निवास करते हुए जानकर डर के कारण भ्रमरों की डोरी वाले धनुष को नहीं धारण करता है । उसका काम तो भ्रूभङ्ग के साथ फेंकी