भारतकोश
मेघदूतम् (वैद्यनाथ झा शास्त्री हिन्दी टीका सहित)

मेघदूतम् (वैद्यनाथ झा शास्त्री हिन्दी टीका सहित)

Meghadutam of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Meghadutam with Sanskrit text and Hindi Commentary by Pt. Vaidyanath Jha Shastri (उद्गम)

DevanagariHindipublished335 पृष्ठ

पृष्ठ 234, कुल 335 में से

संदर्भ में पढ़ें
पृष्ठ 234

उत्तरमेघः १९३

प्रेक्षणीयः, क्रीडाशैलः, (अस्ति) हे सखे ! उपान्तस्फुरिततडितम्, त्वाम्, प्रेक्ष्य, मद्गेहिन्याः, प्रिय इति, कातरेण, चेतसा, तमेव, स्मरामि ॥ १४ ॥

व्याख्या—तस्याः = दीर्घिकायाः, तीरे = तटे, पेशलैः = सुन्दरैः, इन्द्रनीलैः = इन्द्रनीलनामक रत्नैः, रचित-शिखरः = निर्मितशृङ्गः, कनककदलीवेष्टन-प्रेक्षणीयः = हैमरम्भापरिवेशावलोकनीयः, क्रीडाशैलः = केलिगिरिः अस्तीति भावः । हे सखे ! = हे मित्र ! उपान्तस्फुरिततडितम् = समीपस्फुरितविद्युतम्, त्वाम् = मेघम्, प्रेक्ष्य = दृष्ट्वा, मद्गेहिन्याः = मत्प्रियायाः, प्रियः = अभीष्टः, इति = अतः कातरेण = कादर्ययुक्तेन, चेतसा = मनसा, तमेव = क्रीडापर्वतमेव, स्मरामि = स्मरणङ्करोमि ॥ १४ ॥

शब्दार्थः—तस्याः = उस वापी के, तीरे = तीर पर, पेशलैः = सुन्दर, इन्द्रनीलैः = इन्द्रनीलमणियों से, रचितशिखरः = बने हुए शिखरों वाला, कनक-कदली-वेष्टन-प्रेक्षणीयः = स्वर्ण (सुनहले) केले के वृक्षों से परिवेष्टित होने से देखनेयोग्य, क्रीडाशैलः = केलिपर्वत (खलक पर्वत) है। हे सखे ! = हे मित्र ! उपान्तस्फुरिततडितम् = जिसके समीप चमकती हुई बिजली है (ऐसे), त्वाम् = तुमको, प्रेक्ष्य = देखकर, मद्गेहिन्याः = मेरी-प्रिया का, प्रियः = वह पर्वत प्रिय है, इति = इस कारण, कातरेण = कातर, चेतसा = मनसे, तमेव = उसी क्रीडापर्वत का, स्मरामि = स्मरण कर रहा हूँ ॥ १४ ॥

भावार्थः—हे मेघ ! मद्गेहवर्तिवाप्याः तटे इन्द्रनीलमणि-विरचितशृङ्गः स्वर्णरम्भापरिवेष्टन-दर्शनीयः क्रीडापर्वतो विद्यते । हे मित्र ! पार्श्वस्फुरितविद्युतम् ( कान्तासहितमितिभावः ) त्वां विलोक्य सः क्रीडापर्वतः मत्प्रियायाः प्रिय इति हेतुना तं क्रीडापर्वतमेव कातरेण मनसा स्मरामि ॥ १४ ॥

हिन्दी—( हे मेघ ! ) मेरे घर की वापी के तट पर इन्द्रनीलमणि से बने शिखरों वाला, स्वर्ण ( सुनहले ) केले के वृक्षों से घिरे होने के कारण दर्शनीय