भारतकोश
मेघदूतम् (वैद्यनाथ झा शास्त्री हिन्दी टीका सहित)

मेघदूतम् (वैद्यनाथ झा शास्त्री हिन्दी टीका सहित)

Meghadutam of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Meghadutam with Sanskrit text and Hindi Commentary by Pt. Vaidyanath Jha Shastri (उद्गम)

DevanagariHindipublished335 पृष्ठ

पृष्ठ 246, कुल 335 में से

संदर्भ में पढ़ें
पृष्ठ 246

उत्तरमेघः २०५

श्रोणीभारादलसगमना स्तोकनम्रा स्तनाभ्यां या तत्र स्याद्युवतिविषये सृष्टिराद्येव धातुः ॥१९॥

अन्वयः—तन्वी, श्यामा, शिखरिदशना, पक्वबिम्बाधरोष्ठी, मध्येक्षामा, चकित-हरिणी-प्रेक्षणा, निम्ननाभिः, श्रोणी-भारात्, अलसगमना, स्तनाभ्याम्, स्तोकनम्रा, युवतिविषये, धातुः, आद्या, सृष्टिः, इव, या, तत्र, स्यात् ॥ १९ ॥

व्याख्या—स्वभवन-वर्णनाऽनन्तरं प्रिया स्वरूपपरिचयं ददाति श्लोकद्वयेन-(हे मेघ !) तन्वी=कृशाङ्गी, न तु स्थूला, श्यामा=तप्तकाञ्चनवर्णाभा, युवतिर्वा, शिखरिदशना = सुदती, पक्वबिम्बाधरोष्ठी = परिणतबिम्बफलोष्ठी, मध्येक्षामा=कृशोदरी, चकितहरिणीप्रेक्षणा=भयभीतकुरङ्गी-नयना अनेनाऽस्याः पद्मिनीत्वं व्यज्यते । निम्ननाभिः = गम्भीरनाभिः, श्रोणी-भारात्=नितम्बस्थौल्यात्, अलसगमना = मन्दगामिनी, स्तनाभ्याम् = कुचाभ्याम्, स्तोकनम्रा=ईषदवनता। युवतिविषये=ललितासम्बन्धे, धातुः = स्रष्टुः, ब्रह्मणः इति भावः, आद्या=प्रथमा, सृष्टिरिव=रचनेव "वर्तमानेति शेषः" तादृशी या=पूर्वोक्तगुणसम्पन्ना स्त्री, तत्र=मद्गृहे, भवेत् = स्यात्—॥ १९ ॥

शब्दार्थः—तन्वी = दुबली, श्यामा = तपाये हुए सोने के रंग की, अथवा युवती, शिखरिदशना = तीखे दांतों वाली, पक्वबिम्बाधरोष्ठी = पके हुए बिम्ब के समान अधरोष्ठवाली, मध्येक्षामा = पतली कमरवाली, चकितहरिणी-प्रेक्षणा = डरी हुई मृगी के समान ( चञ्चल ) आंखोंवाली, निम्ननाभिः = गहरी नाभिवाली; श्रोणीभारात् = नितम्ब के भार से, अलसगमना = मन्द-मन्द चलने वाली, स्तनाभ्याम् = स्तनों से, स्तोकनम्रा = कुछ-कुछ झुकी हुई, युवतिविषये = स्त्रियों के विषय में, धातुः = स्रष्टा (ब्रह्मा) की, आद्या = पहली, सृष्टिरिव = रचना की तरह, या = जो स्त्री, तत्र = वहाँ मेरे घर में, स्यात् = हो ।

भावार्थः—हे मेघ ! कृशाङ्गी, युवति, दाडिमबीजवद्दन्तशालिनी, कृशोदरी, पक्वबिम्बाधरोष्ठी, भयभीतमृगीव चपलनयना, गम्भीरनाभिः, नितम्भभारान्मन्दगामिनी, कुचभारेणेषदवनता, युवतिविषये ब्रह्मणः प्राथमिकी रचनेव या स्त्री मद्गेहे भवेत् (तां मत्पत्नीं जानीयाः) इत्यग्रतनेन श्लोकेन सम्बन्धो विद्यते ।१९।

१४ मे० दू०