मेघदूतम् (वैद्यनाथ झा शास्त्री हिन्दी टीका सहित)
Meghadutam of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Meghadutam with Sanskrit text and Hindi Commentary by Pt. Vaidyanath Jha Shastri (उद्गम)
पृष्ठ 249, कुल 335 में से
संदर्भ में पढ़ें२०८ मेघदूतम्
व्याख्या—(हे मेघ !) सहचरे=सहगामिनि, मयि=पत्यौ, यक्षे, दूरी- भूते=दूरङ्गते सति, चक्रवाकीमिव = चक्रवाक प्रियामिव, परिमितकथाम् = अत्यल्पभाषिणीम्, एकाम् = एकाकिनीम्, ताम् = पूर्ववर्णितां मत्प्रियाम्, मे = यक्षस्य, द्वितीयम् = अन्यम्, अपरमित्यर्थः, जीवितम् = जीवनम्, जानीथाः = अवगच्छेः । एतेन तस्यां मृतौ मद्जीवननाशोऽवश्यम्भावीति व्यज्यते । गाढो- त्कण्ठाम् = अत्युत्सुक्याम्, बालाम् = नवोढाम् अष्टदशहायनामित्यर्थः । गुरुषु = दीर्घेषु, एषु=वर्तमानेषु, दिवसेषु=शापदिनेषु, गच्छत्सु = यातेषु सत्सु, शिशिर- मथिताम् = तुषारपीडिताम्, पद्मिनीम् = कमलिनीम्, वा = यथा, अन्यरूपाम् = अपराकृतिम्, जाताम् = भूताम्, मन्ये = संभावयामि, हिमविकृतरूपा सा विर- हिणी अन्यरूपा भविष्यति इति तर्कयामि इति भावः ॥ २० ॥
शब्दार्थः—(हे मेघ !) सहचरे = साथी, मयि = मेरे, दूरीभूते = दूर होने पर, चक्रवाकीमिव = चकई के समान, परिमितकथाम् = बहुत कम बोलनेवाली, एकाम् = अकेली, ताम् = उस तन्वी आदि श्लोक से वर्णिता मेरी प्रिया को, मे = मेरा, द्वितीयम् = दूसरा, जीवितम् = जीवन ( प्राण ), जानीथाः = समझना । गाढोत्कण्ठाम् = (मेरे विषय में) अत्यधिक उत्सुक, बालाम् = (अट्ठारह वर्ष की) नवोढा को, गुरुषु = लम्बे दुर्वह, एषु = इन, दिवसेषु = शाप के दिनों में, गच्छत्सु = बीतने पर, शिशिरमथिताम् = हिम से पीडित, पद्मिनीम् = कमलिनी के, वा = समान, अन्यरूपाम् = किसी दूसरे ही रूप को, जाताम् = प्राप्त, अर्थात् कुछ की कुछ बन गयी होगी ऐसा, मन्ये = सोचता हूँ ॥ २० ॥
भावार्थः—हे मेघ ! सहगामिनि मयि दूरस्थिते सति सहवियुक्तां चक्रवा- कीमिव अल्पवाचामेकाकिनीं तां पूर्वप्रकारेण वर्णितां मत्प्रियां मेऽपरं जीवनं जानीथाः । मद्विषये अत्युत्सुकां नवोढामष्टादशवर्षीयां (अहम्) एषु दुर्वहेषु शाप- दिवसेषु गच्छत्सु तुषारपीडितां कमलिनीमिवान्यरूपां तर्कयामि ॥ २० ॥
हिन्दी—( हे मेघ ! ) मुझ साथी के दूर हो जाने पर चकई के समान कम बोलने वाली अकेली उस पूर्ववर्णिता स्त्री को मेरा दूसरा जीवन ( प्राण ) समझना अर्थात् मेरी प्रिया समझना । शाप के इन दुर्वह दिनों के बीतने पर