भारतकोश
मेघदूतम् (वैद्यनाथ झा शास्त्री हिन्दी टीका सहित)

मेघदूतम् (वैद्यनाथ झा शास्त्री हिन्दी टीका सहित)

Meghadutam of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Meghadutam with Sanskrit text and Hindi Commentary by Pt. Vaidyanath Jha Shastri (उद्गम)

DevanagariHindipublished335 पृष्ठ

पृष्ठ 252, कुल 335 में से

संदर्भ में पढ़ें
पृष्ठ 252

उत्तरमेघः २११

हस्तन्यस्तं मुखमसकलव्यक्ति लम्बालकत्वा- दिन्दोर्दैन्यं त्वदनुसरणक्लिष्टकान्तेर्विभर्ति ॥ २१ ॥

अन्वयः—प्रबलरुदितोच्छूननेत्रम्, निःश्वासानाम्, अशिशिरतया, भिन्न-वर्णाधरोष्ठम्, हस्तन्यस्तम्, लम्बालकत्वात्, असकलव्यक्ति, तस्याः, मुखम्, त्वदनुसरणक्लिष्टकान्तेः, इन्दोः, दैन्यम्, बिभर्ति, नूनम् ॥ २१ ॥

व्याख्या—प्रबलरुदितोच्छूननेत्रम् = अत्यधिकरुदितोच्छ्वसितनयनम्, निःश्वासानाम् = वदनश्वासप्रश्वासानाम्, अशिशिरतया = उष्णतया, भिन्नवर्णाधरोष्ठम् = विच्छायमघरोष्ठम्, हस्तन्यस्तम् = हस्तस्थापितम्, लम्बालकत्वात् = दीर्घस्रस्तचूर्णकुन्तलत्वात्, असकलव्यक्ति = असम्पूर्णाभिव्यक्ति, तस्याः = मत्प्रियायाः, मुखम् = वदनम्, त्वदनुसरणक्लिष्टकान्तेः = मेघानुगमनक्षीणद्युतेः, इन्दोः = चन्द्रमसः, दैन्यम् = दीनताम्, बिभर्ति = धारयति; नूनम् = निश्चयेनेति भावः ॥ २१ ॥

शब्दार्थः—प्रबलरुदितोच्छूननेत्रम् = बहुत रोने से सूजे हुए नेत्रों वाला, निःश्वासानाम् = निश्वासों के, अशिशिरतया = गरम होने के कारण, भिन्नवर्णाधरोष्ठम् = जिसके निचले होंठ का रंग फीका पड़ गया है (ऐसा), हस्तन्यस्तम् = हथेली पर रखा हुआ, लम्बालकत्वात् = लटकते हुए बालों के कारण, असकलव्यक्ति = असम्पूर्ण रूप से दिखाई देने वाला, तस्याः = उस मेरी प्रिया का, 'मुखम् = मुख, त्वदनुसरणक्लिष्टकान्तेः = तेरा अनुगमन करने के कारण फीकी पड़ी कान्तिवाले, इन्दोः = चन्द्रमा के, दैन्यम् = दैन्यभाव को, बिभर्ति = धारण करता है, नूनम् = निश्चय ही, ॥ २१ ॥

भावार्थः—हे मेघ ! अधुना मद्वियोगेन अत्यधिक-रोदनादुच्छ्वसितनेत्रमुष्णनिःश्वासैर्विवर्णाधरोष्ठं करतलस्थापितं लम्बायमानैरलकैरसम्पूर्णाभिव्यक्तं मत्प्रियामुखं त्वदनुसरणात्कान्तिहीनस्य हिमांशोः दीनभावं धारयति नूनम् ॥ २१ ॥