मेघदूतम् (वैद्यनाथ झा शास्त्री हिन्दी टीका सहित)
Meghadutam of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Meghadutam with Sanskrit text and Hindi Commentary by Pt. Vaidyanath Jha Shastri (उद्गम)
पृष्ठ 258, कुल 335 में से
संदर्भ में पढ़ेंउत्तरमेघः २१७
स्वयम् = आत्मना, कृतामपि = विहितामपि, मूर्च्छनाम् = स्वराऽऽरोहाऽवरोह- क्रमम्, विस्मरन्ती = विस्मरणं कुर्वन्ती, ‘ते आलोके पुरा निपतिष्यति’ इति पूर्वश्लोकेनान्वयः ।
शब्दार्थः—हे सौम्य ! = सज्जन ! मलिनवसने = मैले वस्त्रोंवाली, उत्सङ्गे = गोद में, वीणाम् = वीणा को, निक्षिप्य = रखकर, मद्गोत्राङ्कम् = मेरे नाम से युक्त, विरचितपदम् = बनाये गये पदोंवाले, गेयम् = गीत को, उद्गातुकामा = गाने की इच्छावाली, नयनसलिलैः = आंसुओं से, आर्द्राम् = भींगी हुई, तन्त्रीम् = तारों को, कथंचित् = किसी तरह, सारयित्वा = मिला करके; भूयो भूयः = बार-बार, स्वयम् = अपने आप, कृतामपि, बनाये गये भी, मूर्च्छनाम् = स्वरों के आरोह-अवरोह क्रम को, विस्मरन्ती = भूलती हुई ( तुम्हारे दृष्टिपथ पर आयेगी ) ।
भावार्थः—हे भद्र ! एवं च सा मे प्रिया मलिनवस्त्रे स्वाङ्के वीणां संस्थाप्य मन्नामान्वितं गानं गान्धारस्वरेण गातुमिच्छन्ती अश्रुभिः क्लिन्नं वीणा- गुणं कथञ्चित् सम्मेल्य वारंवारं स्वेन विरचितमपि स्वराऽऽरोहावरोह-क्रम विस्मरन्ती त्वद्दृष्टिपथे आगमिष्यति ॥ २३ ॥
हिन्दी—हे सज्जन ! और वह मेरी प्रिया मैले वस्त्रों वाली गोद में वीणा को रखकर मेरे नाम से युक्त पदों वाले गीत को गान्धार स्वर में गाने की इच्छा वाली आंसुओं से भींगी हुई तारों को किसी तरह मिलाकर अपने ही द्वारा बनाये गये स्वरों के आरोह-अवरोह क्रम को पुनः-पुनः भूलती हुई (तुम्हारे दृष्टि-पथ पर आयेगी ) ॥ २३ ॥
समासः—मलिनं वसनं यस्मिन् सः मलिनवसनः (बहु०) तस्मिन् । मम गोत्रं = मद्गोत्रम् ( ष० तत्० ) मद्गोत्रं अङ्क यस्मिन् तत् मद्गोत्राङ्कम् ( बहु० ) । विरचितानि पदानि यस्य तत् विरचितपदम् ( बहु० ) । उद्गातुं कामो यस्याः सा उद्गातुकामा ( बहु० ) । नयनयोः सलिलानि = नयनसलि- लानि ( ष० तत्० ) तैः ।