भारतकोश
मेघदूतम् (वैद्यनाथ झा शास्त्री हिन्दी टीका सहित)

मेघदूतम् (वैद्यनाथ झा शास्त्री हिन्दी टीका सहित)

Meghadutam of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Meghadutam with Sanskrit text and Hindi Commentary by Pt. Vaidyanath Jha Shastri (उद्गम)

DevanagariHindipublished335 पृष्ठ

पृष्ठ 260, कुल 335 में से

संदर्भ में पढ़ें
पृष्ठ 260

उत्तरमेघः २१९

शेषान्मासान्विरहदिवसस्थापितस्यावघेर्वा विन्यस्यन्ती भुवि गणनया देहलीदत्त-पुष्पैः । मत्सङ्गं वा हृदयनिहितारम्भमास्वादयन्ती प्रायेणैते रमणविरहेष्वङ्गनानां विनोदाः ॥२४॥

अन्वयः—वा, विरहदिवसस्थापितस्य, अवधेः, शेषान्, मासान्, देहलीदत्त-पुष्पैः, गणनया, भुवि, विन्यस्यन्ती, वा, हृदयनिहितारम्भं, मत्सङ्गम्, आस्वाद-यन्ती, ( ते आलोके पुरा निपतति ) । प्रायेण, अङ्गनानां, रमणविरहेषु, एते, विनोदाः ।

व्याख्या—वा = अथवा, विरहदिवसस्थापितस्य = वियोगदिनादारभ्य-निश्चितस्य, अवधेः = समयसीमायाः, शेषान् = अवशिष्टान्, मासान् = त्रिंशद्-दिनात्मकान् कालविशेषान्, देहलीदत्तपुष्पैः = सदनाऽवग्रहणीस्थापितकुसुमैः, गणनया = एकः द्वावितिक्रमेण संख्यानेन, भुवि = पृथिव्याम्, विन्यस्यन्ती = स्थापयन्ती, वा = अथवा, हृदयनिहिताऽऽरम्भम् = चित्तसङ्कल्पितोपक्रमम्, मत्सङ्गम् = मत्सम्भोगम्, आस्वादयन्ती = अनुभवन्ती, वा ( ते आलोके पुरा निपतति ) प्रायेण = बहुशः, अङ्गनानाम् = कामिनीनाम्, रमणविरहेषु = प्रियतमवियोगेषु, एते = पूर्वोक्ता, विनोदाः = कालात्ययोपायाः भवन्तीति शेषः ।

शब्दार्थः—वा = अथवा, विरहदिवसस्थापितस्य = वियोग के दिन से निश्चित, अवधेः = समय की सीमा के, शेषान् = बचे हुए, मासान् = महीनों को, देहलीदत्तपुष्पैः = देहली पर रखे हुए फूलों के द्वारा, गणनया = एक, दो इस प्रकार गणना करके, भुवि = पृथ्वी पर, विन्यस्यन्ती = रखती हुई, वा = अथवा, हृदयनिहिताऽऽरम्भम् = मन में कल्पना के द्वारा आरम्भ किए हुए, मत्सङ्गम् = मेरे सहवास का, आस्वादयन्ती = अनुभव करती हुई (तेरे दृष्टिपथ पर सहसा आयेगी )। प्रायेण = अधिकतर, अङ्गनानाम् = कामिनियों के, रमणविरहेषु = प्रियतम के वियोग के दिनों में, एते = पहले कहे गये, विनोदाः = मन को बहलाने वाले साधन हुआ करते हैं ।