मेघदूतम् (वैद्यनाथ झा शास्त्री हिन्दी टीका सहित)
Meghadutam of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Meghadutam with Sanskrit text and Hindi Commentary by Pt. Vaidyanath Jha Shastri (उद्गम)
पृष्ठ 260, कुल 335 में से
संदर्भ में पढ़ेंउत्तरमेघः २१९
शेषान्मासान्विरहदिवसस्थापितस्यावघेर्वा विन्यस्यन्ती भुवि गणनया देहलीदत्त-पुष्पैः । मत्सङ्गं वा हृदयनिहितारम्भमास्वादयन्ती प्रायेणैते रमणविरहेष्वङ्गनानां विनोदाः ॥२४॥
अन्वयः—वा, विरहदिवसस्थापितस्य, अवधेः, शेषान्, मासान्, देहलीदत्त-पुष्पैः, गणनया, भुवि, विन्यस्यन्ती, वा, हृदयनिहितारम्भं, मत्सङ्गम्, आस्वाद-यन्ती, ( ते आलोके पुरा निपतति ) । प्रायेण, अङ्गनानां, रमणविरहेषु, एते, विनोदाः ।
व्याख्या—वा = अथवा, विरहदिवसस्थापितस्य = वियोगदिनादारभ्य-निश्चितस्य, अवधेः = समयसीमायाः, शेषान् = अवशिष्टान्, मासान् = त्रिंशद्-दिनात्मकान् कालविशेषान्, देहलीदत्तपुष्पैः = सदनाऽवग्रहणीस्थापितकुसुमैः, गणनया = एकः द्वावितिक्रमेण संख्यानेन, भुवि = पृथिव्याम्, विन्यस्यन्ती = स्थापयन्ती, वा = अथवा, हृदयनिहिताऽऽरम्भम् = चित्तसङ्कल्पितोपक्रमम्, मत्सङ्गम् = मत्सम्भोगम्, आस्वादयन्ती = अनुभवन्ती, वा ( ते आलोके पुरा निपतति ) प्रायेण = बहुशः, अङ्गनानाम् = कामिनीनाम्, रमणविरहेषु = प्रियतमवियोगेषु, एते = पूर्वोक्ता, विनोदाः = कालात्ययोपायाः भवन्तीति शेषः ।
शब्दार्थः—वा = अथवा, विरहदिवसस्थापितस्य = वियोग के दिन से निश्चित, अवधेः = समय की सीमा के, शेषान् = बचे हुए, मासान् = महीनों को, देहलीदत्तपुष्पैः = देहली पर रखे हुए फूलों के द्वारा, गणनया = एक, दो इस प्रकार गणना करके, भुवि = पृथ्वी पर, विन्यस्यन्ती = रखती हुई, वा = अथवा, हृदयनिहिताऽऽरम्भम् = मन में कल्पना के द्वारा आरम्भ किए हुए, मत्सङ्गम् = मेरे सहवास का, आस्वादयन्ती = अनुभव करती हुई (तेरे दृष्टिपथ पर सहसा आयेगी )। प्रायेण = अधिकतर, अङ्गनानाम् = कामिनियों के, रमणविरहेषु = प्रियतम के वियोग के दिनों में, एते = पहले कहे गये, विनोदाः = मन को बहलाने वाले साधन हुआ करते हैं ।