मेघदूतम् (वैद्यनाथ झा शास्त्री हिन्दी टीका सहित)
Meghadutam of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Meghadutam with Sanskrit text and Hindi Commentary by Pt. Vaidyanath Jha Shastri (उद्गम)
पृष्ठ 263, कुल 335 में से
संदर्भ में पढ़ें२२२ मेघदूतम्
अन्वयः—(हे सखे !) अहनि, सव्यापाराम्, ते, सखीम्, मद्वियोगः, तथा न पीडयेत्, रात्रौ, निर्विनोदाम्, गुरुतरशुचम्, शङ्के, निशीथे, उन्निद्राम्, अवनिशयनाम्, साध्वीम्, ताम्, मत्सन्देशैः, अलम्, सुखयितुम्, सौधवातायनस्थः पश्य ॥ २५ ॥
व्याख्या—( हे सखे ! ) अहनि = दिवसे, सव्यापाराम् = पूर्वोक्तचित्रलेखनादिव्यापारसहिताम्, ते = मेघस्य, सखीम् = सखिप्रियाम्, मद्भार्यामित्यर्थः । मद्वियोगः = मदीयविरहः, तथा = तेन प्रकारेण, न पीडयेत् = न संतापयेत् (किन्तु) रात्रौ = निशायाम्, निर्विनोदाम् = विनोदव्यापाररहिताम्, गुरुतरशुचम् = अतिदुःसहशोकाम्, शङ्के = तर्कयामि । (अतः) निशीथे = मध्यरात्रौ, उन्निद्राम् = भग्ननिद्रां, जागरितामिति भावः । अवनिशयनाम् = भूमि शायिनीम्, साध्वीम् = पतिव्रताम्, ताम् = मत्प्रियाम्, मत्सन्देशैः = मदीयवार्ताभिः, अलम् = पर्याप्तम्, सुखयितुम् = आनन्दयितुम्, सौधवातायनस्थः ( सन् ) पश्य = अवलोकय ॥ २५ ॥
शब्दार्थः—( हे सखे ! ) अहनि = दिन में, सव्यापाराम् = काम में लगी हुई, ते = तुम्हारी, सखीम् = सखी को, अर्थात् मेरी प्रिया को, मद्वियोगः = मेरा विरह, तथा = उस प्रकार, न पीडयेत् = नहीं पीड़ित करता होगा, ( किन्तु ) रात्रौ = रात में, निर्विनोदाम् = समय-यापन के साधनों से रहित ( प्रिया को ) गुरुतरशुचम् = बहुत बड़े शोक से युक्त होगी ( ऐसा ) शङ्के = अनुमान कर रहा हूँ। निशीथे = मध्यरात्रि में, उन्निद्राम् = भग्ननिद्रावाली ( जागती हुई ) अवनिशयनाम् = पृथ्वी पर सोयी हुई, साध्वीम् = पतिव्रता, ताम् = उस मेरी प्रिया को, मत्सन्देशैः = मेरे सन्देशों से, अलम् = पर्याप्तरूप से, सुखयितुम् = खुशी करने के लिए, सौधवातायनस्थः = अटारी की खिड़की पर स्थिर होकर, पश्य = देखना ॥ २५ ॥
भावार्थः—हे मित्र ! दिवसे बलिचित्रलेखनादिव्यापारसंलग्ना मद्भार्या मद्विरहेण तेन प्रकारेण न पीड्यते यथा विनोदरहितरात्रौ सा पीड्यते । मध्यरात्रौ भग्ननिद्रां भूमिशायिनीं पतिव्रतां तां मत्प्रियां मत्सन्देशैः हर्म्यवातायनस्थः सन् पर्याप्तमानन्दय ॥ २५ ॥