मेघदूतम् (वैद्यनाथ झा शास्त्री हिन्दी टीका सहित)
Meghadutam of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Meghadutam with Sanskrit text and Hindi Commentary by Pt. Vaidyanath Jha Shastri (उद्गम)
पृष्ठ 272, कुल 335 में से
संदर्भ में पढ़ेंउत्तरमेघः २३१
लग जाने से उसका अर्थ दूसरा हो गया है । धातोरर्थन्तरे......इत्यादि पहले ही निर्देश किया जा चुका है ।
यहाँ अश्रुत्याग के द्वारा त्रपा ( लज्जा ) नाश नामक कामदशा का कथन है ।
अलङ्कारः—'अधरकिसलय' यहाँ लुप्तोपमा है ॥ २८ ॥
आद्ये बद्धा विरहदिवसे या शिखादाम हित्वा शापस्यान्ते विगलितशुचा तां मयोद्वेष्टनीयाम् । स्पर्शक्लिष्टामयमितनखेनासकृत् सारयन्तीं गण्डाभोगात्कठिनविषमामेकवेणीं करेण ॥२९॥
अन्वयः—आद्ये, विरहदिवसे, दाम, हित्वा, या, शिखा, बद्धा, शापस्य, अन्ते, विगलितशुचा, मया, उद्वेष्टनीयाम्, स्पर्शक्लिष्टाम्, कठिनविषमाम्, एकवेणीम्, ताम्, अयमितनखेन, करेण, गण्डाभोगात्, असकृत्, सारयन्तीम्, ( तां पश्य ) ॥ २९ ॥
व्याख्या—आद्ये = प्रथमे, विरहदिवसे = वियोगदिने, दाम = पुष्पमालाम्, हित्वा = त्यक्त्वा, या शिखा = या केशपाशी, बद्धा = निबद्धा ग्रथितेत्यर्थः, शापस्य = अभिशापस्य, अन्ते अवसाने, विगलितशुचा = विनष्टशोकेन, मया = प्रियेण, यक्षेणेत्यर्थः, उद्वेष्टनीयाम् = मोचनीयाम्, स्पर्शक्लिष्टाम् = संस्पर्शेण दुःखदायिनीम्, कठिनविषमाम् = परुषोच्चावचाम्, एकवेणीम् = एकबन्धनवतीं वेणीम्, ताम् = केशपाशीम्, अयमितनखेन = अकृत्तानखेन, करेण = हस्तेन, गण्डाभोगात् = कपोल-प्रदेशात्, असकृत् = भूयोभूयः, सारयन्तीम् = अपसारयन्तीम् ( तां पश्य ) ॥ २९ ॥
शब्दार्थः—आद्ये = पहले, विरहदिवसे = वियोग के दिन, दाम = पुष्पमाला को, हित्वा = छोड़कर, या शिखा = जो चोटी, बद्धा = गूँथी थी, शापस्यान्ते = शाप के बीत जाने पर, विगलितशुचा = अपगत शोक वाले, मया = मेरे द्वारा, उद्वेष्टनीयाम् = खोली जाने वाली, स्पर्शक्लिष्टाम् = छूने से व्यथा पहुँचाने वाली