मेघदूतम् (वैद्यनाथ झा शास्त्री हिन्दी टीका सहित)
Meghadutam of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Meghadutam with Sanskrit text and Hindi Commentary by Pt. Vaidyanath Jha Shastri (उद्गम)
पृष्ठ 275, कुल 335 में से
संदर्भ में पढ़ें२३४ मेघदूतम्
=स्थापितम्, पेशलम् = कोमलम्, गात्रम् = शरीरम्, धारयन्ती - बिभ्रती, सा = मत्प्रिया, त्वामपि = मेघमपि, नवजलमयम् = नूतननीरमयम्, अस्रम् = बाष्पम्, अवश्यम् = नूनम्, मोचयिष्यति = त्याजयिष्यति । अर्थान्तरेण द्रढयति स्वकथनं प्राय इति। प्रायः = बहुशः, आर्द्रान्तरात्मा = नर्महृदयः, सर्वः = निखिलः, करुणावृत्तिः = दयामयचित्तवृत्तिः, भवति = वर्तते ॥ ३० ॥
शब्दार्थः—अबला = दुर्बल, संन्यस्ताभरणम् = गहनों से रहित, असकृत् = बार-बार, दुःखदुःखेन = घोर कष्ट से, शय्योत्सङ्गे - शय्या पर, निहितम् = रखे हुए, पेशलम् - कोमल, गात्रम् = शरीर को, धारयन्ती - धारण करती हुई, सा - वह मेरी प्रिया, त्वामपि = तेरे द्वारा भी, नवजलमयम् = नवीन जलमय, अस्रम् = आंसुओं को, अवश्यम् = निश्चित ही, मोचयिष्यति = गिरवायेगी। प्रायः = प्रायशः, आर्द्रान्तरात्मा = कोमलहृदयवाले, सर्वः = सभी, करुणावृत्तिः - करुण स्वभाव के, भवति = होते हैं ॥ ३० ॥
भावार्थः—हे मेघ ! दुर्बला, परित्यक्ताऽलङ्कारं बहुशः महत्कष्टेन तल्पमध्यस्थापितं कोमलं शरीरं धारयन्ती सा मत्प्रिया त्वामपि नवतोयरूपेणाऽश्रूणि रोदयिष्यति, यतो हि प्रायः सर्व एव आर्द्रहृदयः दयालुस्वभावो भवति ॥ ३० ॥
हिन्दी—हे मेघ ! दुर्बल, आभूषणों से रहित, बार-बार अत्यन्त कष्ट से शय्या पर रखे अपने कोमल शरीर को धारण करती हुई वह मेरी प्रिया तुम्हें भी नवीन जलरूपी आंसुओं से रुलायेगी, क्योंकि आर्द्रहृदय वाले प्रायः सभी करुण स्वभाव के होते हैं ॥ ३० ॥
समासः—अविद्यमानं बलं यस्याः सा अबला ( न० बहु० ) संन्यस्तान्याभरणानि यस्य तत् = संन्यस्ताऽभरणम् (बहु०)। न सकृत् = असकृत् (नञ्०), शय्यायाः उत्सङ्गः = शय्योत्सङ्गः (ष० तत्०) तस्मिन् । नवञ्च तज्जलं = नवजलम् ( कर्मधा० ) तदेव नवजलमयम् । आर्द्रः अन्तरात्मा यस्य सः आर्द्रान्तरात्मा ( बहु० ) । करुणायां वृत्तिर्यस्य सः करुणावृत्तिः ( बहु० ) ।