मेघदूतम् (वैद्यनाथ झा शास्त्री हिन्दी टीका सहित)
Meghadutam of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Meghadutam with Sanskrit text and Hindi Commentary by Pt. Vaidyanath Jha Shastri (उद्गम)
पृष्ठ 277, कुल 335 में से
संदर्भ में पढ़ें२३६ | मेघदूतम्
**अलङ्कारः—**इस श्लोक में 'अस्त्रमवश्यं मोचयिष्यति सा' इस कथन को 'प्रायः सर्वः' इत्यादि वाक्य के द्वारा समर्थित किया गया है। अतः यहाँ 'अर्थान्तरन्यास' नामक अलङ्कार है ॥ ३० ॥
जाने सख्यास्तव मनः मयि सम्भृतस्नेहमस्मा-
दित्यंभूतां प्रथमविरहे तामहं तर्कयामि ।
वाचालं मां न खलु सुभगंमन्यभावः करोति
प्रत्यक्षं ते निखिलमचिराद्भ्रातरुक्तं मया यत् ॥ ३१॥
**अन्वयः—**तव सख्याः, मनः, मयि, संभृतस्नेहम्, जाने । अस्मात्, अहम्, प्रथमविरहे, ताम्, इत्थंभूताम्, तर्कयामि । सुभगंमन्यभावः, माम्, वाचालम्, न करोति, खलु । हे ! भ्रातः, मया, यत्, उक्तम्, निखिलम्, अचिरात्, ते, प्रत्यक्षम् ॥ ३१ ॥
**व्याख्या—**तव = मेघस्य, सख्याः = मद्भार्यायाः, मनः = चेतः, मयि = मद्विषये, संभृतस्नेहम् = संवलितानुरागम्, जाने = जानामि । अस्मात् = अतएव, अहम् = यक्षः, प्रथमविरहे = आद्यवियोगे, ताम् = स्वप्रियाम्, इत्थंभूताम् = पूर्वकथितदशाप्राप्ताम्, तर्कयामि = अनुमिनोमि । सुभगम्मन्यभावः = सुभगमानित्वम्, माम् = यक्षम्, वाचालम् = वाचाटम्, न करोति = न सम्पादयति, खलु = निश्चयेन । हे भ्रातः ! = हे बन्धो ! मया = यक्षेण, यत् = तद्दीनदशादिकम्, उक्तम् = कथितम्, (तत्) निखिलम् = सम्पूर्णम्, अचिरात् = त्वरितम्, ते = मेघस्य, प्रत्यक्षम् = नेत्रसम्मुखम् ( भविष्यति, इति शेषः ) ॥ ३१ ॥
**शब्दार्थः—**तव = तेरी, सख्याः = सखी (मेरी प्रिया) का, मनः = चित्त, मयि = मेरे प्रति, संभृतस्नेहम् = अनुरागपूर्ण ( है, ऐसा ), जाने = जानता हूँ । अस्मात् = इसलिए, प्रथमविरहे = प्रथमवियोग में, ताम् = उसे, इत्थम्भूताम् = पहले कही गयी दीनदशा को प्राप्त हुई होगी (ऐसा) अहम् = मैं, तर्कयामि = अनुमान कर रहा हूँ । सुभगंमन्यभावः = अपने को सौभाग्यशाली समझने का