मेघदूतम् (वैद्यनाथ झा शास्त्री हिन्दी टीका सहित)
Meghadutam of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Meghadutam with Sanskrit text and Hindi Commentary by Pt. Vaidyanath Jha Shastri (उद्गम)
पृष्ठ 279, कुल 335 में से
संदर्भ में पढ़ें२३८ मेघदूतम्
करके 'सुभगम्मन्य' ऐसा रूप उपपन्न होता है। वाचालम्—बहुगर्हा वाक् यस्य इस विग्रह में 'कुत्सायामिति वक्तव्यम्' इस वातिक से कुत्सा अर्थ में 'वाक्' शब्द से 'आलजाटचौ बहुभाषिणि' इस सूत्र से 'आलच्' प्रत्यय हुआ है।
अलङ्कारः—यहाँ तृतीय चरणोक्त अर्थ का चतुर्थ चरण कथित वाक्यार्थ हेतु है अतः यहाँ 'काव्यलिङ्ग' अलङ्कार है ।। ३१ ।।
रुद्धापाङ्गप्रसरमलकैरञ्जनस्नेहशून्यं प्रत्यादेशादपि च मधुनो विस्मृतभ्रूविलासम् । त्वय्यासन्ने नयनमुपरिस्पन्दि शङ्के मृगाक्ष्या मीनक्षोभाच्चलकुवलयश्रीतुलामेष्यतीति ॥३२॥
अन्वयः—अलकैः, रुद्धापाङ्गप्रसरम् अञ्जनस्नेहशून्यम्, अपि च, मधुनः, प्रत्यादेशात्, विस्मृतभ्रूविलासम्, त्वयि, आसन्ने, उपरिस्पन्दि, मृगाक्ष्या, नयनम् मीनक्षोभात्, चलकुवलयश्रीतुलाम्, एष्यति, इति शङ्के ।। ३२ ।।
व्याख्या—अलकैः = चूर्णकुन्तलैः, रुद्धापाङ्गप्रसरम् = अवरुद्धकटाक्षप्रक्षेपम्, अञ्जनस्नेहशून्यम् = कज्जलस्निग्धघरहितम्, अपि च = तथा च, मधुनः = मद्यस्य, प्रत्यादेशात् = त्यागात्, विस्मृतभ्रूविलासम् = प्रस्मृतभ्रूभङ्गम्, त्वयि = मेघे, आसन्ने = समीपस्थे ( सति ) उपरिस्पन्दि = ऊर्ध्वभागे स्फुरशीलम्, मृगाक्ष्याः = हरिणनेत्रायाः, नयनम् = लोचनम्, मीनक्षोभात् = मत्स्यसञ्चरणात्, चलकुवलयश्रीतुलाम् = चञ्चलनीलपद्मशोभोपमाम्, एष्यति = गमिष्यति, इति शङ्के = इति संभावयामि ।। ३२ ।।
शब्दार्थः—अलकैः = घुंघराले बालों से, रुद्धापाङ्गप्रसरम् = जिसके कटाक्ष-विशेष अवरुद्ध हो गये हैं, अञ्जनस्नेहशून्यम् = काजल की चिकनाहट से विहीन, अपि च = और भी, मधुनः = मदिरा (शराब) के, प्रत्यादेशात् = त्याग से, विस्मृतभ्रूविलासम् = जो भौंहों की भङ्गिमा को भूल गया है, त्वयि = तुम्हारे, आसन्ने =