भारतकोश
मेघदूतम् (वैद्यनाथ झा शास्त्री हिन्दी टीका सहित)

मेघदूतम् (वैद्यनाथ झा शास्त्री हिन्दी टीका सहित)

Meghadutam of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Meghadutam with Sanskrit text and Hindi Commentary by Pt. Vaidyanath Jha Shastri (उद्गम)

DevanagariHindipublished335 पृष्ठ

पृष्ठ 282, कुल 335 में से

संदर्भ में पढ़ें
पृष्ठ 282

उत्तरमेघः २४१

व्याख्या—मदीयैः = मामकीनैः, कररुहपदैः = नखचिह्नैः, मुच्यमानः = परिहीयमानः, चिरपरिचितम् = चिराऽभ्यस्तम्, मुक्ताजालम् = मौक्तिकसरमयम्, दैवगत्या = भाग्यवशेन, त्याजितः = मोचितः, संभोगान्ते = सुरतसमाप्तौ, मम = यक्षस्य, हस्तसंवाहनानाम् = करमर्दनानाम्, समुचितः = योग्यः, सरसकदलीस्तम्भगौरः = रसान्द्रकदलीस्तम्भपाण्डुरः, अस्याः = मत्प्रियायाः, वामः = दक्षिणान्यः, ऊरुः = सक्थि, चलत्वम् = स्पन्दनं, यास्यति = प्राप्स्यति ॥ ३३ ॥

शब्दार्थः—मदीयैः = मेरे, कररुहपदैः = नखों के चिह्नों से, मुच्यमानः = मुक्त, चिरपरिचितम् = प्राचीन समय से अभ्यस्त, मुक्ताजालम् = मोतियों की लड़ी वाली ( करधनी ) से, दैवगत्या = भाग्यवश, त्याजितः = विमुक्त, संभोगान्ते = रति ( सुरत ) क्रीडा के पश्चात्, मम = मेरे, हस्तसंवाहनानाम् = हाथों के मर्दनों के, समुचितः = योग्य, सरसकदलीस्तम्भगौरः = रसपूर्ण केले के स्तम्भ ( तने ) के समान गोरी, अस्याः = इस मेरी प्रिया की, वामः = बायीं, ऊरुः = जांघ, चलत्वम् = चञ्चलता को, यास्यति = प्राप्त करेगी ॥३३॥

भावार्थः—हे मेघ ! त्वयि समीपस्थे मदीयनखचिह्नरहितः, भाग्यवशात् त्याजितमुक्तामयकटिभूषणः सुरतसमाप्तौ मदीयहस्तसंवाहनयोग्यः सरसरम्भास्तम्भविशदो मम प्रियायाः वाम ऊरुः चाञ्चल्यं प्राप्स्यति ॥ ३३ ॥

हिन्दी—हे मेघ ! तुम जब मेरी प्रिया के समीप जाओगे उस समय मेरे नाखूनों के चिह्नों से रहित, भाग्यवश मोतियों की लड़ी वाली करधनी से हीन, संभोग के पश्चात् मेरे हाथों द्वारा सम्मर्दन के योग्य गीले-गीले केले के तने के समान गोरी मेरी प्रिया की बायीं जांघ फड़क उठेगी ॥ ३३ ॥

समासः—करे रुहन्तीति = कररुहाः ( उपपद ० ) कररुहाणां पदानि = कररुहपदानि ( ष० तत् ० ) तैः । चिरं परिचितं = चिरपरिचितम् ( सुप्सुपेति समासः ) । मुक्तानां जालं = मुक्ताजालम् (ष० तत् ०) । दैवस्य गतिः=दैवगतिः ( ष० तत् ० ) तया । संभोगस्य अन्तः = संभोगान्तः ( ष० तत् ० ) तस्मिन् । हस्ताभ्यां संवाहनानि = हस्तसंवाहनानि (तृ० तत् ०) तेषाम् । रसेन सहितः=