मेघदूतम् (वैद्यनाथ झा शास्त्री हिन्दी टीका सहित)
Meghadutam of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Meghadutam with Sanskrit text and Hindi Commentary by Pt. Vaidyanath Jha Shastri (उद्गम)
पृष्ठ 284, कुल 335 में से
संदर्भ में पढ़ेंउत्तरमेघः २४३
कवि अच्छी तरह परिपक्व हरेभरे केले के तने के समान 'न कि सूखे तने के समान' इस भाव को ध्वनित करना चाहता है ।
अलङ्कारः—यहाँ 'उपमा' अलङ्कार है ।। ३३ ।।
तस्मिन् काले जलद ! यदि सा लब्धनिद्रासुखा स्या- दन्वास्यैनां स्तनितविमुखो याममात्रं सहस्व । मा भूदस्याः प्रणयिनि मयि स्वप्नलब्धे कथञ्चित् सद्यःकण्ठच्युतभुजलताग्रन्थि गाढोपगूढम् ।।३४।।
अन्वयः —हे जलद ! तस्मिन्, काले, सा, यदि, लब्धनिद्रासुखा, स्यात्, एनाम्, अन्वास्य, स्तनितविमुखः, याममात्रम्, सहस्व । अस्याः, प्रणयिनि, मयि, कथञ्चित्, स्वप्नलब्धे, गाढोपगूढवम्, सद्यःकण्ठच्युतभुजलताग्रन्थि, मा भूत् ।। ३४ ।।
व्याख्या —हे जलद !—हे मेघ ! तस्मिन् = पूर्वोक्ते, काले = समये, त्वयि समीपस्थ इति भावः । सा = मत्प्रिया, यदि = चेत्, लब्धनिद्रासुखा = प्राप्तस्वप्नामोदा, स्यात् = भवेत्, (तर्हि) एनाम् = मत्प्रियाम्, अन्वास्य = पृष्ठदेशमुपविश्य, स्तनितविमुखः = गर्जितरहितः, (सन्) तूष्णीं भूत्वेत्यर्थः । याममात्रम् = प्रहरमात्रम्, सहस्व = प्रतीक्षस्व । अस्याः = मत्प्रियायाः, प्रणयिनि = वल्लभे, मयि = यक्षे, भर्तरि, कथञ्चित् = केनापि प्रकारेण, स्वप्नलब्धे = स्वापावाप्ते, (सति) गाढोपगूढम् = दृढाऽऽलिङ्गितम्, सद्यः = तत्क्षणम्, कण्ठच्युतलताग्रन्थि = गलस्रस्तबाहुवल्लीग्रन्थनम्, मा भूत् = न स्यात् ।। ३४ ।।
शब्दार्थः—हे जलद ! = हे मेघ ! तस्मिन् = पहले कहे गये, काले = समय में (तुम्हारे समीप जाने पर), सा = वह मेरी प्रिया, यदि, लब्धनिद्रासुखा = नींद के सुख को प्राप्त कर रही, स्यात् = हो (तो), एनाम् = उस मेरी प्रिया के, अन्वास्य = पीछे बैठकर, स्तनितविमुखः = गर्जन से रहित होकर (निःशब्द), याममात्रम् = एक प्रहर मात्र, सहस्व = (उसकी) प्रतीक्षा करना । अस्याः = मेरी प्रिया के, प्रणयिनि = प्रियतम, मयि = मेरे, कथञ्चित् = किसी प्रकार, स्वप्न-