मेघदूतम् (वैद्यनाथ झा शास्त्री हिन्दी टीका सहित)
Meghadutam of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Meghadutam with Sanskrit text and Hindi Commentary by Pt. Vaidyanath Jha Shastri (उद्गम)
पृष्ठ 285, कुल 335 में से
संदर्भ में पढ़ें| २४४ | मेघदूतम् |
|---|
लब्धे = सपने में प्राप्त होने पर, गाढोपगूढम् = दृढ़ आलिङ्गन, सद्यः = तुरत ही, कण्ठच्युतलताग्रन्थि = गले में बँधी लताओं जैसी भुजाओं का बन्धन विच्छिन्न, न स्यात् = न हो ॥ ३४ ॥
भावार्थः—हे मेघ ! यदि तस्मिन् समये मत्प्रिया निद्रामग्ना स्यात्, तर्हि त्वं तस्याः पृष्ठदेशमुपविश्य निःशब्दः सन् याममात्रं तां प्रतीक्षस्व, यतो हि, येन केनापि प्रकारेण स्वप्नलब्धे मयि प्रेयसि सति (त्वद्गर्जितेन) सद्यः गाढाऽऽलिङ्गनं न स्यात् ॥ ३४ ॥
हिन्दी—हे मेघ ! तुम्हारे समीप जाने के समय वह मेरी प्रिया यदि निद्रा-सुख ले रही हो तो तुम उसके पीछे निःशब्द बैठकर एक प्रहर मात्र उसकी प्रतीक्षा करना, क्योंकि उसके प्रियतम मेरे किसी प्रकार से स्वप्न में प्राप्त होने पर (तुम्हारे गर्जन से) कण्ठ में प्राप्त भुज-लताओं का गाढ़ आलिङ्गन बन्धन-रहित न हो जाय (टूट न जाए) ॥ ३४ ॥
समासः—निद्रायाः सुखम् = निद्रासुखम् (ष० त०) । लब्धं निद्रासुखं यया सा लब्धनिद्रासुखा (बहु०) । स्तनितात् विमुखः = स्तनितविमुखः (पं० तत्०) । याम एव याममात्रम् (मयूरव्यंसकादयश्चेति समासः) । स्वप्ने लब्धः = स्वप्नलब्धः (स० तत्०) तस्मिन् । गाढञ्च तदुपगूढम् = गाढापगूढम् (क० धा०) । कण्ठात् च्युतः = कण्ठच्युतः (पं० तत्०) भुजौ लते इव भुजलते (उपमित कर्म०) । भुजलतयोः ग्रन्थिः = भुजलताग्रन्थिः (ष० तत्०) । सद्यः कण्ठच्युतः = सद्यःकण्ठच्युतः (सुप्सुपा०) सद्यःकण्ठच्युतो भुजलताग्रन्थिः यस्य तत् = सद्यःकण्ठच्युतभुजलताग्रन्थि (बहु०) ।
कोशः—द्वौ यामप्रहरौ समौ, इत्यमरः । वाढ-वाढदृढानि च, इत्यमरः । स्तनितं गर्जितं मेघनिर्घोषे रसितादि च, इत्यमरः ।
टिप्पणी—जलदः—जलं ददाति इति जलदः, जल उपपदपूर्वक 'दा' धातु से 'आतोऽनुपसर्गे कः' इस सूत्र से 'क' प्रत्यय करके धातु के 'आ'कार का लोप करके 'जलदः' ऐसा रूप निष्पन्न होता है । स्यात्—सत्तार्थक 'अस्' धातु से लिङ्लकार का उक्त रूप है । अन्वास्य—'अनु' उपसर्गपूर्वक 'आस्'