मेघदूतम् (वैद्यनाथ झा शास्त्री हिन्दी टीका सहित)
Meghadutam of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Meghadutam with Sanskrit text and Hindi Commentary by Pt. Vaidyanath Jha Shastri (उद्गम)
| २४४ | मेघदूतम् |
|---|
लब्धे = सपने में प्राप्त होने पर, गाढोपगूढम् = दृढ़ आलिङ्गन, सद्यः = तुरत ही, कण्ठच्युतलताग्रन्थि = गले में बँधी लताओं जैसी भुजाओं का बन्धन विच्छिन्न, न स्यात् = न हो ॥ ३४ ॥
भावार्थः—हे मेघ ! यदि तस्मिन् समये मत्प्रिया निद्रामग्ना स्यात्, तर्हि त्वं तस्याः पृष्ठदेशमुपविश्य निःशब्दः सन् याममात्रं तां प्रतीक्षस्व, यतो हि, येन केनापि प्रकारेण स्वप्नलब्धे मयि प्रेयसि सति (त्वद्गर्जितेन) सद्यः गाढाऽऽलिङ्गनं न स्यात् ॥ ३४ ॥
हिन्दी—हे मेघ ! तुम्हारे समीप जाने के समय वह मेरी प्रिया यदि निद्रा-सुख ले रही हो तो तुम उसके पीछे निःशब्द बैठकर एक प्रहर मात्र उसकी प्रतीक्षा करना, क्योंकि उसके प्रियतम मेरे किसी प्रकार से स्वप्न में प्राप्त होने पर (तुम्हारे गर्जन से) कण्ठ में प्राप्त भुज-लताओं का गाढ़ आलिङ्गन बन्धन-रहित न हो जाय (टूट न जाए) ॥ ३४ ॥
समासः—निद्रायाः सुखम् = निद्रासुखम् (ष० त०) । लब्धं निद्रासुखं यया सा लब्धनिद्रासुखा (बहु०) । स्तनितात् विमुखः = स्तनितविमुखः (पं० तत्०) । याम एव याममात्रम् (मयूरव्यंसकादयश्चेति समासः) । स्वप्ने लब्धः = स्वप्नलब्धः (स० तत्०) तस्मिन् । गाढञ्च तदुपगूढम् = गाढापगूढम् (क० धा०) । कण्ठात् च्युतः = कण्ठच्युतः (पं० तत्०) भुजौ लते इव भुजलते (उपमित कर्म०) । भुजलतयोः ग्रन्थिः = भुजलताग्रन्थिः (ष० तत्०) । सद्यः कण्ठच्युतः = सद्यःकण्ठच्युतः (सुप्सुपा०) सद्यःकण्ठच्युतो भुजलताग्रन्थिः यस्य तत् = सद्यःकण्ठच्युतभुजलताग्रन्थि (बहु०) ।
कोशः—द्वौ यामप्रहरौ समौ, इत्यमरः । वाढ-वाढदृढानि च, इत्यमरः । स्तनितं गर्जितं मेघनिर्घोषे रसितादि च, इत्यमरः ।
टिप्पणी—जलदः—जलं ददाति इति जलदः, जल उपपदपूर्वक 'दा' धातु से 'आतोऽनुपसर्गे कः' इस सूत्र से 'क' प्रत्यय करके धातु के 'आ'कार का लोप करके 'जलदः' ऐसा रूप निष्पन्न होता है । स्यात्—सत्तार्थक 'अस्' धातु से लिङ्लकार का उक्त रूप है । अन्वास्य—'अनु' उपसर्गपूर्वक 'आस्'
उत्तरमेघः २४५
धातु से 'क्त्वा' प्रत्यय करके उसके स्थान पर 'ल्यप्' करके 'अन्वास्य' रूप निष्पन्न होता है। याममात्रम्—यहाँ 'कालाऽध्वनोरत्यन्तसंयोगे' इस सूत्र से द्वितीया हुई है। सहस्व—यह रूप मर्षणार्थक ( ष ) सह् धातु के लोट्लकार के मध्यमपुरुष के एकवचन का है। यक्ष मेघ से एक प्रहर तक प्रतीक्षा करने को कहता है; क्योंकि 'संभोग' एक प्रहर से अधिक नहीं हो सकता, उसके बाद यदि तुम गर्जन करोगे भी तो वह मेरे सहवास सुख को प्राप्त कर चुकी होगी अतः उससे कोई क्षति नहीं होगी, मध्य में गर्जने से वह उक्त सुख से वञ्चित रह जाएगी, यह भाव है। रतिविलास में संभोग की परमावधि एक प्रहर माना गया है—‘परमा तु रतिर्यूनामिष्टा यामावसायिकी' इति । उपगूढम्—'उप' उपसर्गपूर्वक 'गुह्' धातु से 'नपुंसके भावे क्त' इस सूत्र ते 'क्त' प्रत्यय करके ढत्व ष्टुत्व आदि करके 'ढो ढे लोपः' इस सूत्र से धातु के ढकार के लोप हो जाने पर 'ढ्रलोपे पूर्वस्य दीर्घोऽणः' इस सूत्र से धातु के 'उ'कार को दीर्घ करके 'उपगूढ' ऐसा बनता है।
अलङ्कारः—यहाँ 'याममात्रं' सहस्व के प्रति उत्तरार्ध का वाक्यार्थ हेतु है। अतः 'काव्यलिङ्ग' अलङ्कार है। एवञ्च 'भुजलता' यहाँ लुप्तोपमा है। इस प्रकार दोनों के अङ्गाङ्गिभावतया रहने से 'संकर' अलङ्कार है ॥ ३४ ॥
तामुत्थाप्य स्वजलकणिकाशीतलेनानिलेन प्रत्याश्वस्तां सममभिनवैर्जालकैर्मालतीनाम् । विद्युद्गर्भः स्तिमितनयनां त्वत्सनाथे गवाक्षे वक्तुं धीरः स्तनितवचनैर्मानिनीं प्रक्रमेथाः ॥३५॥
अन्वयः—(हे मेघ !) ताम्, स्वजलकणिकाशीतलेन, अनिलेन, उत्थाप्य, अभिनवैः, मालतीनाम्, जालकैः, समम्, प्रत्याश्वस्ताम्, त्वत्सनाथे, गवाक्षे स्तिमितनयनाम्, मानिनीम्, विद्युद्गर्भः, धीरः, स्तनितवचनैः, वक्तुम्, प्रक्रमेथाः ॥ ३५ ॥
व्याख्या—( हे मेघ ! ) ताम् = मत्प्रियाम्, स्वजलकणिकाशीतलेन =
| २४६ | मेघदूतम् |
|---|
निजोदकबिन्दुशिशिरेण, अनिलेन = वायुना, उत्थाप्य = प्रबोध्य, अभिनवैः = नूतनैः, मालतीनाम् = जातिकुसुमानाम्, जालकैः = कोरकैः, समम् = सार्धम्, प्रत्याश्वस्ताम् = सुस्थिताम्, त्वत्सनाथे = भवद्युक्ते, गवाक्षे = वातायने, स्तिमितनयनाम् = निष्पन्दलोचनाम्, मानिनीम् = मनस्विनीम्, ( मत्प्रियाम् ) विद्युद्गर्भः = विद्युदात्मा, धीरः = दृढः ( सन् ) स्तनितवचनैः = गर्जितवाग्भिः, वक्तुम् = भाषितुम्, प्रक्रमेथाः = उपक्रमस्व ॥ ३५ ॥
शब्दार्थः—(हे मेघ !) ताम् = उस मेरी प्रिया को, स्वजलकणिकाशीतलेन = अपने वारि-बिन्दु से शीतल, वायुना = वायु के द्वारा, उत्थाप्य = जगाकर, अभिनवैः = नूतन, मालतीनाम् = चमेली के, जालकैः = कलियों से ( एवं ) प्रत्याश्वस्ताम् = स्वस्थ, त्वत्सनाथे = तुम से युक्त, गवाक्षे = खिड़की पर, स्तिमितनयनाम् = निश्चल नेत्रों वाली (आँख गड़ाकर देखती हुई), मानिनीम् = मानिनी (उस मेरी प्रिया को), विद्युद्गर्भः = अपने भीतर बिजली को छिपाए हुए, धीरः = धैर्यपूर्वक, स्तनितवचनैः = गर्जनरूपीवाणी से, वक्तुं = कहना, प्रक्रमेथाः = आरम्भ करना ॥ ३५ ॥
भावार्थः—हे मेघ! सुप्तां मत्प्रियां निजसलिलकणशिशिरेण वायुना प्रबोध्य जातिकुड्मलैः साकं सुस्थितां त्वदावृते वातायने निश्चलनयनां विद्युतात्मा त्वं धीरः सन् गर्जितवचोभिः स्वकथनमारभस्व ॥ ३५ ॥
हिन्दी—हे मेघ ! उस मेरी प्रिया को अपने जल-बिन्दु से शीतल वायु के द्वारा जगा कर चमेली की नयी कलियों के साथ सुस्थिता और तुमसे घिरी खिड़की की ओर आंख गढ़ा कर देखती हुई मनस्विनी ( उस मेरी प्रिया ) को अपने भीतर बिजली को रखे हुए तुम धैर्यपूर्वक अपने गर्जनरूपी वचनों से कहना प्रारम्भ करना ॥ ३५ ॥
समासः—जलस्य कणिका = जलकणिका (ष० तत्०), स्वस्य जलकणिका स्वजलकणिका (ष० तत्०) ताभिः शीतलः = स्वजलकणिकाशीतलः (तृ० त०) तेन । नाथेन सहितः = सनाथः (तुल्ययोग बहु० ) त्वया सनाथः = त्वत्सनाथः ( तृ० त० ) तस्मिन् । गवामक्षीव गवाक्षः ( उपमित कर्म० ) । स्तिमितै नयने
उत्तरमेघः २४७
यस्याः सा = स्तिमितनयना (बहु०) ताम् । विद्युत् गर्भः यस्य सः विद्युद्गर्भः ( बहु० ) । स्तनितान्येव वचनानि = स्तनितवचनानि ( रूप० क० ) तैः ।
कोशः—सुमना मालती जातिः, इत्यमरः । साकं सार्धं समं सह, इत्यमरः । क्षारको जालकं क्लीबे कलिका कोरकः पुमान्, इत्यमरः । सनाथं प्रभुमित्याहुः सहिते चित्ततापिनो, इति शब्दार्णवः । गर्भोपवारकेऽन्तःस्थे कुक्षिस्थे चार्भके मतः, इति शब्दार्णवः ।
टिप्पणी —उत्थाप्य—'उद्' उपसर्गपूर्वक णिजन्त 'स्थायि' धातु से 'क्त्वा' प्रत्यय करके उसके स्थान पर ल्यप् करके पुगादि करके 'उत्थाप्य' ऐसा निष्पन्न होता है । प्रत्याश्वस्ताम्—'प्रति' एवं 'आङ्' उपसर्गपूर्वक 'श्वस्' धातु से कर्ता में 'क्त' प्रत्यय करके स्त्रीत्वविवक्षा में टाप् करके 'प्रत्याश्वस्ता' ऐसा निष्पन्न किया जाता है, यह रूप द्वितीया विभक्ति के एकवचन का है । मानिनी—प्रशस्तो मानो यस्याः सा मानिनी । धीरः—यहाँ इस पद को देने का अभिप्राय 'दृढ़तापूर्वक यक्षपत्नी को भलीभाँति समझावे, क्योंकि स्त्रियाँ स्वभाव से घबरालू होती हैं, अन्यथा जो स्वयं दृढ़ नहीं हैं वह दूसरे को धैर्य कैसे बँधायेगा' यह है ।
अलङ्कारः—इस श्लोक में 'जालकैः समम्' यहाँ 'सहोक्ति' एवं 'स्तनित' में वचन आरोप प्रकृत कथन में उपयोगी है अतः 'परिणाम' अलङ्कार, एवञ्च दोनों के परस्पर निरपेक्ष भाव से रहने के कारण 'संसृष्टि' नामक अलङ्कार है ।। ३५ ।।
भर्तुर्मित्रं प्रियमविधवे ! विद्धि मामम्बुवाहं तत्संदेशैर्हृदयनिहितैरागतं त्वत्समीपम् । यो वृन्दानि त्वरयति पथि श्राम्यतां प्रोषितानां मन्द्रस्निग्धैर्ध्वनिभिरबलावेणिमोक्षोत्सुकानि ॥ ३६॥
अन्वयः—हे अविघवे ! माम्, भर्तुः, प्रियम्, मित्रम्, हृदयनिहितैः, तत्सन्देशैः, त्वत्समीपम्, आगतम्, अम्बुवाहम्, विद्धि । यः, अबलावेणिमोक्षोत्सु-
| २४८ | मेघदूतम् |
|---|
कानि, पथि, श्राम्यताम्, प्रोषितानाम्, वृन्दानि, मन्द्रस्निग्धैः, ध्वनिभिः, त्वरयति ॥ ३६ ॥
व्याख्या—सम्प्रति सन्देशप्रकारं निर्दिशति भर्तुरिति । हे अविधवे = हे सौभाग्यवति ! माम् = आगन्तुकं मेघम्, भर्तुः = पत्युः, प्रियम् = स्नेहास्पदम्, मित्रम् = सुहृदम्, हृदयनिहितैः = मनःसंस्थापितैः, तत्सन्देशैः = त्वत्भर्तृसन्देशैः, त्वत्समीपम् = भवत्पार्श्वम, आगतम् = आयातम्, अम्बुवाहम् = जलदम्, विद्धि = जानीहि। यः = अहमम्बुवाहः, अबलावेणिमोक्षोत्सुकानि = वियोगिनी-बद्धवेणिमोचनोत्कंठितानि, पथि = मार्गे, श्राम्यताम् = श्रान्तिमापन्नानाम्, प्रोषितानाम् = प्रवासिनाम्, वृन्दानि = समूहान्, मन्द्रस्निग्धैः = गम्भीरमधुरैः, ध्वनिभिः = स्तनितैः, त्वरयति = चाञ्चलयति, शीघ्रं गन्तुं प्रेरयति इति भावः ॥ ३६ ॥
शब्दार्थः—हे अविधवे ! = हे सौभाग्यवति ! माम् = मुझको, भर्तुः = (अपने) पति का, प्रियम् = स्नेही, मित्रम् = मित्र, (एवं) हृदयनिहितैः = हृदय में रखे हुए, तत्सन्देशैः = तुम्हारे पति के सन्देशों के साथ, त्वत्समीपम् = तुम्हारे पास, आगतम् = आया हुआ, अम्बुवाहम् = मेघ, विद्धि = जानो । यः = जो (मेघ), अबलावेणिमोक्षोत्सुकानि = विरहिणियों की बँधी वेणियों को खोलने के लिए उत्कण्ठित हो रहे, पथि = मार्ग में, श्राम्यताम् = थके-माँदे, प्रोषितानाम् = प्रवासियों के, वृन्दानि = समूहों को, मन्द्रस्निग्धैः, = मधुर एवं कर्णप्रिय, ध्वनिभिः = गर्जनों से, त्वरयति = ( गृह जाने के लिए ) शीघ्रता करवाता है ॥ ३६ ॥
भावार्थः—हे सौभाग्यवति ! मां निजवल्लभसुहृदं तत्सन्देशहरमम्बुवाह जानीहि । यो मेघः प्रवासिनां सङ्घान् गृहं गन्तुं शीघ्रतां कारयति ॥ ३६ ॥
हिन्दी—हे सुहागिन ! जो, अबलाओं की बँधी वेणियों को खोलने के लिए लालायित प्रवासियों के समूह को शीघ्र घर जाने की प्रेरणा देता है, वैसे मुझको सन्देश कहने के लिए तुम्हारे पास आया हुआ, अपने पति का प्रिय मित्र मेघ समझो ॥ ३६ ॥
समासः—विगतो धवो यस्याः सा विधवा (बहु०) । न विधवा अविधवा ( नञ्० ) तत्सम्बुद्धौ 'अविधवे' । हृदये निहिताः = हृदयनिहिताः (स० तत्०)
उत्तरमेघः २४९
तैः । तस्य सन्देशाः = तत् सन्देशाः ( ष० तत्० ) तैः । अबलानां वेणयः = अबलावेणयः ( ष० तत्० ), ताषां मोक्षः = अबलावेणिमोक्षः ( ष० तत् ), तस्मिन् उत्सुकानि अबलावेणिमोक्षोत्सुकानि ( स० तत्० ) । मन्द्राश्च ते स्निग्धाः = मन्द्रस्निग्धाः, ( कर्मधा० ) तैः ।
कोशः—अथ मित्रं सखा सुहृत्, इत्यमरः । स्त्री योषिदबला योषा, इत्यमरः । धवः प्रियः पतिर्भर्ता, इत्यमरः ।
टिप्पणी—भर्तुः—‘भृ’ धातु से ‘तृच्’ प्रत्यय करके ‘भर्तृ’ ऐसा रूप साधु होता है । यह रूप उक्त शब्द के षष्ठी विभक्ति के एकवचन का है । निहितैः—‘नि’ उपसर्गपूर्वक ‘धा’ धातु से ‘क्त’ प्रत्यय करके धातु के स्थान में ‘दधातेर्हिः’ इस सूत्र से ‘हि’ आदेश करके ‘निहित’ ऐसा रूप बनता है। यहाँ तृतीया विभक्तिः के बहुवचन का रूप है । सन्देशैः—‘सम्’ उपसर्गपूर्वक ‘दिश्’ धातु से कर्म में ‘घञ्’ प्रत्यय करके ‘सन्देश’ रूप बनता है । अम्बुवाहम्—अम्बु वहतीति, इस विग्रह में ‘अम्बु’ उपपदक ‘वह’ धातु से ‘कर्मण्यण्’ इस सूत्र से अण् प्रत्यय करके ‘अम्बुवाह’ रूप निष्पन्न होता है । यह द्वितीया के एकवचन का रूप है ॥ ३६ ॥
अलङ्कारः—यहाँ ‘अविधवे !’ यह साभिप्राय विशेषण है अतः ‘परिकर’ नामक अलङ्कार है । ३६ ।।
इत्याख्याते पवनतनयं मैथिलीवोन्मुखी सा त्वामुत्कण्ठोच्छ्वसितहृदया वीक्ष्य संभाष्य चैव । श्रोष्यत्यस्मात्परमविहिता सौम्य ! सीमन्तिनीनां कान्तोदान्तः सुहृदुपगतः संगमात्किञ्चिदूनः ॥३७॥
अन्वयः—इति, आख्याते, उन्मुखी, सा, उत्कण्ठोच्छ्वसितहृदया, मैथिली, पवनतनयम्, इव, त्वाम्, वीक्ष्य, सम्भाष्य, च, अस्मात्, परम्, अविहिता, श्रोष्यति, एव । सौम्य ! सीमन्तिनीनाम्, सुहृदुपगतः, कान्तोदान्तः, संगमात् किञ्चित्, ऊनः ॥ ३७ ॥
२५० मेघदूतम्
व्याख्या—हे मेघ ! इति = स्वपरिचयम्, आख्याते=कथिते सति (त्वयि) उन्मुखी = उन्नमितानना, सा = मत्प्रिया, उत्कण्ठोच्छ्वसितहृदया = औत्सुक्य-विकसितमना, मैथिली = सीता, पवनतनयम् = वायुसुतम्, हनूमन्तमित्यर्थः, इव = यथा, त्वाम् = मेघम्, वीक्ष्य = अवलोक्य, सम्भाव्य च = सत्कृत्य च, अस्मात् = वल्लभमैत्री-ज्ञानात्, परम् = अनन्तरम् अविहिता = सावधाना सति, तल्लीना सतीत्यर्थः, श्रोष्यति = आकर्णयिष्यति, एव = निश्चयेन, मत्सन्देशमिति शेषः । हे सौम्य != हे भद्र ! सीमन्तिनीनाम् = कामिनीनाम्, सुहृदुपगतः = मित्रनीतः, कान्तोदान्तः=वल्लभवृत्तान्तः, संगमात्=प्रियमिलनात्, किञ्चिदूनः=ईषन्न्यूनः, भवति इति शेषः ॥ ३७ ॥
शब्दार्थः—( हे मेघ !) = इस प्रकार, आख्याते = ( तुम्हारे ) कहने पर उन्मुखी = ऊपर की ओर मुँह किए; सा = वह मेरी प्रिया, उत्कण्ठोच्छ्वसित-हृदयः=उत्सुकता के कारण विकसित हृदय वाली (होती हुई), मैथिली = सीता, पवनतनयम् = हनुमानजी की, इव = तरह, त्वाम् = तुमको, वीक्ष्य = देखकर, सम्भाव्य च = और (तुम्हारा) सत्कार करके, अस्मात् = (तुम्हें पति का मित्र है यह जान लेने के), परम् = पश्चात्, अविहिता = सावधान (होकर) श्रोष्यति = ( संदेशों को) सुनेगी, एव = निश्चय ही । हे सौम्य != हे सज्जन ! सुहृदुप-गतः = मित्र के द्वारा लाया गया, कान्तोदान्तः=प्रिय का वृत्तान्त, संगमात् = प्रिय समागम से, किञ्चित = कुछ ही, ऊनः = कम होता है ॥ ३७ ॥
भावार्थः—हे मेघ ! अनेन प्रकारेण त्वत्कथिते सति जानकी हनुमन्तमिवोन्नतवदना विकसितचित्ता मत्प्रिया त्वां दृष्ट्वा सत्कृत्य च सावधाना सती मत्सन्देशमवश्यं श्रोष्यति, यतो हि कामिनीनां मित्र-प्राप्तः कान्तवृत्तान्तो वल्लभ-संगमादीषन्न्यूनो भवति ॥ ३७ ॥
हिन्दी—हे मेघ ! इस प्रकार तुम्हारे कहने पर जिस प्रकार सीताजी ने हनुमान् जी को देखा था और उनका सत्कार किया था उसी प्रकार मेरी प्रिया भी अपने मुँह को ऊपर उठाकर उत्सुकता से विकसित हृदय वाली होती हुई तुम्हें देखकर और तुम्हारा सत्कार करके, सावधान होकर मेरे सन्देश को अवश्य सुनेगी, क्योंकि हे सज्जन ! स्त्रियों के लिए मित्र के द्वारा लाया गया पति का वृत्तान्त प्रियसमागम से कुछ ही थोड़ा होता है ॥ ३७ ॥
उत्तरमेघः २५१
समासः—पवनस्य तनयः = पवनतनयः ( ष० तत्० ) तम् । उन्नतं मुखं यस्याः सा उन्मुखी ( बहु० ) । उच्छ्वसितं हृदयं यस्याः सा उच्छ्वसितहृदया ( बहु० ), उत्कण्ठया उच्छ्वसितहृदया = उत्कण्ठोच्छ्वसितहृदया ( तृ० तत्०) । शोभनं हृदयं यस्य स सुहृद् (बहु०) । सुहृदा उपगतः = सुहृदुपगतः (तृ० तत्०) । कान्तस्य उदन्तः = कान्तोदान्तः ( ष० तत्० ) ।
कोशः—नारी सीमन्तिनी वधूः, इत्यमरः । वार्ताप्रवृत्तिर्वृत्तान्तमुदन्तः स्यात्, इत्यमरः । स्वान्तं हृन्मानसं मनः, इत्यमरः ।
टिप्पणी—मैथिली—मथ्यन्तोऽत्र रिपव इति मिथिला । विलोडनार्थक 'मिथ्' धातु से 'मिथिलादयश्च' इस सूत्र से इलच् प्रत्यय करके मिथिला शब्द निष्पन्न होता है । मिथिलायां भवः इस विग्रह में 'मिथिला' शब्द से 'तत्र भवः' इस सूत्र से अण् प्रत्यय करके आदिवृद्धि करके 'मैथिल' ऐसा रूप निष्पन्न होता है । एवं स्त्रीत्व की विवक्षा में ङीप् करके 'मैथिली' ऐसा निष्पन्न होता है । प्राचीन मिथिला के ( जिसे इस समय दरभङ्गा, मधुबनी, जनकपुर, तिरहुत आदि कहते हैं, ) राजा जनक थे और उन्हीं के द्वारा हल चलाते समय पृथ्वी से जानकीजी का जन्म हुआ था । ये हल के फाल पर मिली थीं अतः ये 'सीता' एवं मिथिला भूमि में जन्मी थीं इसलिए 'मैथिली' कही जाती हैं । पवनतनयम्—हनुमान्जी को 'पवन-तनय' कहा जाता है । उनका यह नाम क्यों पड़ा इस बात की चर्चा ग्रन्थ विस्तार से नहीं की जाती है । इन्होंने रामचन्द्र जी की अँगूठी (प्रत्यभिज्ञान) लेकर उनका दूत बनकर चार सौ कोष विस्तृत समुद्र को लाँघकर लङ्का में जाकर सीताजी का पता लगाया था और उन्हें रामचन्द्रजी का सन्देश सुनाया था । सीताजी ने भी हनुमान् को रामचन्द्रजी का पक्का दूत समझ लेने के बाद उनका सत्कार किया था, जैसा कि वाल्मीकि रामायण के सुन्दरकाण्ड में ये श्लोक आये हैं—
विक्रान्तस्त्वं समर्थस्त्वं प्राज्ञस्त्वं वानरोत्तम ।
येनेदं राक्षसपदं त्वयैकेन प्रधर्षितम् ॥
शतयोजनविस्तीर्णः सागरो मकरालयः ।
विक्रमश्लाघनीयेन हनुमता गोष्पदी कृतः ॥ इत्यादि ।
२५२ मेघदूतम्
उपर्युक्त उपमा के द्वारा सीता की तरह यक्षपत्नी का पातिव्रत्य एवं हनुमान् की तरह मेघ का दूतत्व सम्पादित होता है। उन्मुखी—उन्मुख शब्द घटक 'मुख' शब्द स्वाङ्गवाची है, अतः 'स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्' इस सूत्र से स्त्रीत्व विवक्षा में 'ङीष्' हुआ है। श्रोष्यति—'श्रु' धातु के लृट्-लकार में प्रथमपुरुष के एकवचन का यह रूप है। सीमन्तिनी—'सीमन्तोऽस्त्यस्याः' इस विग्रह में 'सीमन्त' शब्द से 'अत इनिठनौ' इस सूत्र से 'इनि' प्रत्यय करके 'सीमन्निन्' शब्द बनाया जाता है। पश्चात् स्त्रीत्वविवक्षा में 'ऋन्नेभ्यो ङीप्' इस सूत्र से 'ङीप्' करके 'सीमन्तिनी' ऐसा रूप बनता है। संगम—सम् उपसर्गपूर्वक 'गम्' धातु से 'ग्रहवृदृनिश्चिगमश्च' इस सूत्र से अप् प्रत्यय करके 'संगम' ऐसा रूप बनता है।
अलङ्कारः—यहाँ 'मैथिलीव' में उपमा अलङ्कार एवं 'अविहिता श्रोष्यति' इस वाक्य को चतुर्थ चरणोक्त वाक्य के द्वारा समर्थित होने के कारण 'अर्थान्तरन्यास' अलङ्कार है। एवं दोनों के निरपेक्ष भाव से रहने के कारण 'संसृष्टि' अलङ्कार है ॥ ३७ ॥
तामायुष्मन्मम च वचनादात्मनश्चोपकर्तुं
ब्रूया एवं 'तव सहचरो रामगिर्याश्रमस्थः ।
अव्यापन्नः कुशलमबले ! पृच्छति त्वां वियुक्तः'
पूर्वाभाष्यं सुलभविपदां प्राणिनामेतदेव ॥ ३८ ॥
अन्वयः—हे आयुष्मन्, मम, वचनात्, आत्मनः, उपकर्तुम्, च, ताम्, एवम्, ब्रूयाः 'हे अबले ! तव, सहचरः, रामगिर्याश्रमस्थः, अव्यापन्नः, वियुक्तः, त्वाम्, कुशलम्, पृच्छति' । सुलभविपदाम्, प्राणिनाम् एतदेव, पूर्वाभाष्यम् ॥ ३८ ॥
व्याख्या—हे आयुष्मन् = हे चिरञ्जीविन् ! मम = यक्षस्य, वचनात् = प्रार्थनावाक्यात्, आत्मनः = निजस्य, च, उपकर्तुम् = उपकारं कर्तुम्, ताम् = मत्प्रियाम्, एवम् = इत्थम्, ब्रूयाः = व्याहर । किमिति कथयति—हे अबले ! = हे दुर्बले ! तव = भवत्याः, सहचरः = सहचारी 'भर्ता' इत्यर्थः, रामगिर्याश्रमस्थः = रामगिरिनामकपर्वताश्रमस्थः, अव्यापन्नः = जीवितः, सकुशल इत्यर्थः,
उत्तरमेघः २५३
वियुक्तः = वियोगं प्राप्तः, ( सन् ) त्वाम् = भवतीम्, प्रियामित्यर्थः, कुशलम् = क्षेमम्, मङ्गलमितियावत्, पृच्छति = जिज्ञासते । सुलभविपदाम् = सुगमापत्तीनाम्, प्राणिनाम् = जन्तूनाम्, एतदेव = कुशलमेव, पूर्वाभाष्यम् = प्राक्कथनीयम् ॥३८॥
समासः—हे आयुष्मन् = हे चिरजीविन् ! मम = मेरे, वचनात् = प्रार्थना वाक्यों से, आत्मनश्च = और अपने को भी, उपकर्तुम् = उपकृत करने के लिए, अर्थात् परोपकार की भावना से, ताम् = उस मेरी प्रिया को, एवम् = इस प्रकार, ब्रूयाः = कहना, ( कि ) हे अबले ! = हे कृशाङ्गि ! तव = तुम्हारा, सहचरः = साथी (सहगामी), रामगिर्याश्रमस्थः = रामगिरि के आश्रमों में रहता हुआ, अव्यापन्नः = सकुशल, वियुक्तः = (तुमसे) बिछुड़ा (हुआ), त्वाम् = तुम्हारी, कुशलम् = कुशलता को, पृच्छति = पूछता है । सुलभविपदाम् = आसानी से विपत्तियों को प्राप्त करने वाले, प्राणिनाम् = प्राणियों के लिए, एतदेव = कुशल प्रश्न ही, पूर्वाभाष्यम् = प्रारम्भ में पूछने योग्य होता है ॥ ३८ ॥
भावार्थः—हे आयुष्मन् ! त्वं मत्प्रार्थनावचोभिरुपकारभावनया च मत्प्रियामित्थं कथयेः ( यत् ) हे अबले ! 'त्वत्प्रियः रामगिर्याश्रमेषु निवसन् कुशली त्वद्वियुक्तः सन् त्वत्कुशलं पृच्छति' । सुगमप्राप्तविपत्तीनां जन्तूनां प्राक्कथनीयं कुशलमेव भवति ॥ ३८ ॥
हिन्दी—हे चिरञ्जीव ! तुम मेरी प्रार्थना से और उपकार की भावना से मेरी प्रिया को ऐसा कहना—( कि ) 'हे अबले ! तुम्हारा प्रियतम तुमसे बिछुड़ा हुआ रामगिरि पर्वत के आश्रमों में रहता हुआ सकुशल तुम्हारा कुशल पूछ रहा है।' क्योंकि अनायास ही विपत्ति में फँस जाने वाले प्राणियों को पहले कुशल ही पूछना चाहिए ॥ ३८ ॥
समासः—रामगिरेः आश्रमाः = रामगिर्याश्रमाः (ष० तत्०) तेषु तिष्ठति इति रामगिर्याश्रमस्थः (उपपदसमास०)। न व्यापन्नः = अव्यापन्नः (नञ्०) । पूर्वंमाभाष्यम् = पूर्वाभाष्यम् (सुप्सुपा०) । सुलभा विपत् येषां ते सुलभविपदः ( बहु० ) तेषाम् ।
कोशः—कुशलं क्षेममस्त्रियाम्, इत्यमरः । स्त्रीयोषिदबलायोषा, इत्यमरः । जैवातृकः स्यादायुष्मन्, इत्यमरः । विपत्यां विपदापदो, इत्यमरः ।
१७ मे० दूत ०
२५४ | मेघदूतम्
टिप्पणी—वचनात्—यहाँ 'वच्' धातु से 'ल्युट्' प्रत्यय करके 'वचन' रूप निष्पन्न होता है। 'ल्यब्लोपे कर्मण्यधिकरणे च' इस सूत्र से कर्म में पञ्चमी विभक्ति हुई है। आत्मनः—यहाँ पर 'आत्मन्' शब्द से द्वितीया विभक्ति प्राप्त थी क्योंकि वह 'उपकार' क्रिया का कर्म है, परन्तु सम्बन्ध की विवक्षा होने के कारण 'कर्मादीनामपि सम्बन्धमात्रविवक्षायां षष्ठ्येव' इससे षष्ठी हो गयी। उपकर्तुम्—'उप' उपसर्गपूर्वक 'कृ' धातु से तुमुन् प्रत्यय करके 'उपकर्तुम्' ऐसा रूप निष्पन्न होता है। अव्यापन्न—वि+आ उपसर्ग पूर्वक 'पद' धातु से 'क्त' प्रत्यय करके 'व्यापन्न' रूप बनता है, न व्यापन्नः अव्यापन्नः। सुलभविपदाम्—यह प्राणियों का विशेषण है। संसार में प्राणियों को विपत्ति प्राप्त होना सुलभ तो है ही। जैसा कि कवि ने अपने रघुवंश महाकाव्य में भी लिखा है—'विपदुत्पत्तिमंतामुपस्थिता।' इति। भगवान् पतञ्जलि भी योगदर्शन में लिखते हैं—
'परिणामतापसंस्कारदुःखैर्गुणवृत्तिविरोधाच्च दुःखमेव सर्वं विवेकिनः' इति।
अलङ्कारः—इस श्लोक में पूर्व के तीनों चरणों में कहे गये वाक्य का समर्थन चतुर्थ चरणोक्त 'पूर्वाभाष्यम्' इत्यादि से किया गया है, अतः 'अर्थान्तरन्यास' अलङ्कार है॥ ३८॥
अङ्गेनाङ्गं प्रतनु तनुना गाढतप्तेन तप्तं
सास्त्रेणास्रद्रुतमविरतोत्कण्ठमुत्कण्ठितेन ।
उष्णोच्छ्वासं समधिकतरोच्छ्वासिना दूरवर्ती
संकल्पैस्तैर्विशति विधिना वैरिणा रुद्धमार्गः ॥३९॥
अन्वयः—(हे अबले !) दूरवर्ती, वैरिणा, विधिना, रुद्धमार्गः, तनुना, गाढतप्तेन, सास्रेण, उत्कण्ठितेन, समधिकतरोच्छ्वासिना, अङ्गेन, प्रतनु, तप्तम्, अस्रद्रुतम्, अविरतोत्कण्ठम्, उष्णोच्छ्वासम्, अङ्गम्, तैः, सङ्कल्पैः, विशति ॥ ३९ ॥
उत्तरमेघः २५५
व्याख्या—( हे सुन्दरी ! ) दूरवर्ती = दूरस्थः, वैरिणा = विपरीतेन, विधिना = विधात्रा, रुद्धमार्गः = अवरुद्धवर्त्मा, ( तव प्रियः ) तनुना = कृशेन, गाढतप्तेन = अत्यन्तोष्णेन, सास्रेण = अश्रुसहितेन, उत्कण्ठितेन = उत्सुकेन, समधिकतरोच्छ्वासिना = प्रबलनिःश्वासिना, अङ्गेन = स्वावयवेन, प्रतनु = बहुकृशम्, तप्तम् = सन्तप्तम्, अस्रद्रुतम् = नयनजलार्द्रम्, अविरतोत्कण्ठम् = निरन्तरवेदनायुक्तम्, उष्णोच्छ्वासम् = उष्णनिःश्वासम्, अङ्गम् = त्वदवयवम्, तैः = पूर्वानुभूतैः, सङ्कल्पैः = मनोरथैः, विशति = प्रविशति ॥ ३९ ॥
शब्दार्थः—दूरवर्ती = दूर देश में रहने वाला, वैरिणा = विपरीत, विधिना = भाग्य से, रुद्धमार्गः = रुके हुए मार्ग वाला, ( तुम्हारा प्रियतम ) तनुना = दुबले, गाढतप्तेन = अत्यन्ततापयुक्त, सास्रेण = आँसुओं से युक्त, उत्कण्ठितेन = उत्सुकतापूर्ण, समधिकतरोच्छ्वासिना = दीर्घनिःश्वास लेने वाले, अङ्गेन = ( अपने ) शरीर से, प्रतनु = अत्यधिक दुबले, तप्तम् = तापयुक्त, अस्रद्रुतम् = आसुओं से भींगे, अविरतोत्कण्ठम् = निरन्तर उत्कण्ठा ( वेदना ) युक्त, उष्णोच्छ्वासम् = गर्म-गर्म आहों वाले, अङ्गम् = (तुम्हारे) शरीर में, तैः = पहले के अनुभूत, सङ्कल्पैः = मनोरथों के साथ, विशति = प्रवेश करता है ॥ ३९ ॥
भावार्थः—हे अबले ! प्रतिकूलभाग्येनावरुद्धपथो दूरस्थस्त्वत्पतिः कृशेन संतप्तेनास्रपूर्णेनोत्कण्ठितेन दीर्घनिःश्वासयुक्तेन स्वशरीरेण कृशे संतप्तेऽश्रुक्लिन्ने उत्कण्ठिते दीर्घनिःश्वासयुक्ते त्वत्शरीरे पूर्वानुभूतैः मनोरथैः प्रविशति ॥ ३९ ॥
हिन्दी—हे अबले ! विपरीत भाग्य के कारण रुके हुए मार्ग वाला दूर देश में रहने वाला ( तुम्हारा पति ) अपने दुबले-पतले, संतप्त, अश्रुपूर्ण, वेदना से युक्त, लम्बी-लम्बी आहें भरने वाले शरीर से अत्यन्त दुबले, तापयुक्त, आंसुओं से भींगे, वेदनापूर्ण, लम्बी-लम्बी आहों से युक्त तुम्हारे शरीर में पहले के अनुभूत मनोरथों से प्रवेश करता है ॥ ३९ ॥
समासः—दूरवर्ती—दूरे वर्त्तति शीलमस्य इति = दूरवर्ती (उपपद०) । रुद्धमार्गः—रुद्धो मार्गो यस्य सः 'रुद्धमार्गः ( बहु० ) । गाढं तप्तम् = गाढतप्तम् ( सुप्सुपा० ) तेन । अस्रेण सहितम् = सास्रम् ( तुल्य योग० ) तेन । सम्यक्
२५६ मेघदूतम्
अधिकतरम् = समधिकतरम् ( कुगतिप्रा० इति समासः ) । प्रकृष्टं तनु = प्रतनु ( कुगतिप्रा० । अस्रैः द्रुतम् = अस्रद्रुतम् ( तृ० तत्० ) तत् । न विरता = अविरता ( नञ्० ) अविरता उत्कण्ठा यस्य तत् = अविरतोत्कण्ठम् ( बहु० ) । उष्ण उच्छ्वासो यस्य तत् उष्णोच्छ्वासम् ( बहु० ) ।
**कोश:—**तिग्मं तीव्रं खरं तीक्ष्णं चण्डमुष्णं पटुस्मृतम्, इति यादवः । चाश्रुनेत्राम्बुरोदनं चास्रमश्रु च, इत्यमरः । गाढ-बाढ-दृढानि च, इत्यमरः । रिपौ वैरिसपत्नाऽरिद्विषद्द्वेषणदुहृदः, इत्यमरः । 'दैवं दिष्टं भागधेयं भाग्यं स्त्री नियतिर्विधिः, इत्यमरः ।
टिप्पणी—दूरवर्ती—'दूर' उपपदपूर्वक 'वृत्' धातु से तच्छील अर्थ में 'णिनि' प्रत्यय करके 'दूरवर्ती' ऐसा रूप बनता है। **वैरी—**वैरमस्यास्तीति 'वैरी'। 'वैर' शब्द से 'अत इनिठनौ' इस सूत्र से 'इन्' प्रत्यये 'वैरी' शब्द बनाया जाता है। **उत्कण्ठितेन—**उत्कण्ठा सञ्जात अस्येति इस विग्रह में 'उत्कण्ठा' शब्द से 'तदस्य सञ्जातं तारकादिभ्य इतच्' इस सूत्र से 'इतच्' प्रत्यय हुआ है। **प्रतनु—**यक्ष ने अपने शरीर को केवल पतला कहा परन्तु पत्नी के शरीर को प्रतनु कहा—अर्थात् एक तो वह स्वाभाविक दुर्बल थी, वियोग में अत्यधिक दुर्बल हो गयी होगी। ठीक इसी भाव का श्लोक वाल्मीकि-रामायण में आता है। 'सा प्रकृत्यैव तन्वङ्गी तद्वियोगाच्च कर्शिता । प्रतिपत्पाठ-शीलस्य विद्येव तनुतां गता' इति ॥
**अलङ्कार:—**यहाँ 'सम' अलङ्कार है क्योंकि यक्ष के शरीर और उसके पत्नी के शरीर का एक समान कथन किया गया है। 'समं स्यादानुरूप्येण श्लाघा या योग्यवस्तुनोः ।' ( साहित्यदर्पण ) ।
शब्दाख्येयं यदपि किल ते यः सखीनां पुरस्तात् कर्णे लोलः कथयितुमभूदाननस्पर्शलोभात् । सोऽतिक्रान्तः श्रवणविषयं लोचनाभ्यामदृश्य— स्त्वामुत्कण्ठाविरचितपदं मन्मुखेनेदमाह ॥ ४०॥
उत्तरमेघः २५७
अन्वयः— (हे अबले !) यः, ते, सखीनाम्, पुरस्तात्, यत्, शब्दारुह्येयम् अपि, आननस्पर्शलोभात्, कर्णे, कथयितुम्, लोलः, अभूत्, किल । श्रवणविषयम्, अतिक्रान्तः, लोचनाभ्याम्, अदृश्यः, स, त्वाम्, उत्कण्ठाविरचितपदम्, इदम्, मन्मुखेन, आह ॥ ४० ॥
व्याख्या— (हे अबले !) यः = त्वत्प्रियः, ते = तव, सखीनाम् = आलीनाम्, पुरस्तात् = सम्मुखम्, यत् = वचनम्, शब्दारुह्येयम् = स्पष्टैः शब्दैः कथनीयम्, (तत्) अपि आननस्पर्शलोभात् = त्वद्वदनसम्पर्काभिलाषात्, कर्णे = श्रोत्रे, कथयितुम् = वक्तुम्, लोलः = चपलः, अभूत् = आसीत्, किल = निश्चयेन । श्रवणविषयम् = कर्णकुहरम्, अतिक्रान्तः = उल्लङ्घितः कर्णेन्द्रियाऽविषय इति भावः । लोचनाभ्याम् = नेत्राभ्याम्, अदृश्यः = अनवलोक्यः, सः = त्वत्प्रियः, उत्कण्ठाविरचितपदम् = औत्सुक्यनिर्मितपदम्, इदम् = अग्रेवक्ष्यमाणम्, मन्मुखेन = मदाननेन, आह = ब्रवीति ॥ ४० ॥
शब्दार्थः— (हे अबले !) यः = जो, (तुम्हारा प्रियतम) ते = तुम्हारे, सखीनाम् = सखियों के, पुरस्तात् = सामने, यत् = जो, शब्दारुह्येयम् = जो बात ऊँचे शब्दों में कही जा सकती थी (वह), अपि = भी, आननस्पर्शलोभात् = तुम्हारे मुख के स्पर्श के लोभ से, कर्णे = कान में, कथयितुम् = कहने के लिए, लोलः = चञ्चल, अभूत् = हो जाता था । श्रवणविषयः = कान के विषय से, अतिक्रान्तः = अछूता अर्थात् कान से जो नहीं सुना जा सकता, लोचनाभ्याम् = नेत्रों से अदृश्यः = जो नहीं देखा जा सकता, सः = वह (तुम्हारा प्रिय), त्वाम् = तुमको, उत्कण्ठाविरचितपदम् = उत्सुकतावश बनाये गये शब्दों वाला, इदम् = यह आगे कहा जाने वाला (सन्देश), मन्मुखेन = मेरे मुँह के माध्यम से, आह = कहता है ॥ ४० ॥
भावार्थः— हे सुन्दरि ! यस्ते वल्लभः पुरा त्वत्सहचरीनां समक्षं स्पष्टशब्दैः कथनीयमपि वचनं त्वन्मुख-चुम्बनाभिलाषया कर्णे वक्तुं चञ्चल आसीत् । स एव कर्णेन्द्रियातीतः चक्षुर्भ्यामदृश्यः दूरवर्ती त्वत्प्रियः उत्सुकतावशात् विरचित-पदं सन्देशं त्वां मन्मुखेन कथयति ॥ ४० ॥
हिन्दी— हे सुन्दरि ! जो प्रियतम तुम्हारी सखियों के सामने जिसे स्पष्ट शब्दों में (ऊँचे से) भी कहा जा सकता था ऐसी बातों को भी तुम्हारे मुख के
२५८ मेघदूतम्
स्पर्शं के लोभ से कान में कहने के लिए चञ्चल होता था। वही जिसे कानों से नहीं सुन सकती या जिसे आँखों से नहीं देख सकती ( दूर रहने के कारण ), तुम्हारा प्रिय उत्सुकता से बनाये गये शब्दों वाला सन्देश तुमको मेरे द्वारा कह रहा है ॥ ४० ॥
समास:— शब्देन आख्येयम् = शब्दाख्येयम् (तृ० त०), आननस्य स्पर्श:= आननस्पर्श: (ष० तत्०), आननस्पर्शे लोभ: = आननस्पर्शलोभः (स० तत्०), तस्मात् । श्रवणयो: विषय: = श्रवण-विषय: ( प० तत्० ) तम् । द्रष्टुं योग्य: दृश्य:, न दृश्य: = अदृश्य: ( नञ्० ), उत्कण्ठया विरचितानि पदानि यस्य तत् = उत्कण्ठाविरचितपदम् ( बहु० ) । मम मुखम् = मन्मुखम् ( ष० तत्० ) तेन ।
कोश:— लोलुपो लोलुभो लोलो लालसो लम्पटोऽपि च, इति यादव:। पदं शब्दे च वाक्ये च, इति विश्व: । वक्त्रास्ये वदनं तुण्डमाननं लपनं मुखम्, इत्यमर: ।
टिप्पणी— स्पर्शं—'स्पृश्' धातु से 'घञ्' प्रत्यय करके स्पर्श रूप निष्पन्न होता है । लोभ: —'लुभ्' धातु से 'घञ्' प्रत्यय करके 'लोभ' शब्द निष्पन्न होता है । अभूत्—यह सत्ताथंक 'भू' धातु के लुङ्लकार का रूप है । दृश्य:— द्रष्टुं योग्य:, इस विग्रह में क्यप् प्रत्यय करके 'दृश्य' रूप बनता है ।
श्यामास्वङ्गं चकितहरिणीप्रेक्षणे दृष्टिपातं
वक्त्रच्छायां शशिनि शिखिनां बर्हभारेषु केशान् ।
उत्पश्यामि प्रतनुषु नदीवीचिषु भ्रूविलासान्
हन्तैकस्मिन् क्वचिदपि न ते चण्डि ! सादृश्यमस्ति ॥४१॥
अन्वय:— (हे प्रिये !) श्यामासु, अङ्गम्, चकितहरिणीप्रेक्षणे; दृष्टिपातम्; शशिनि, वक्त्रच्छायाम्, शिखिनाम्, बर्हभारेषु, केशान्, प्रतनुषु, नदीवीचिषु, भ्रू-विलासान्, उत्पश्यामि । हन्त ! हे चण्डि ! क्वचिदपि, एकस्मिन्, ते सादृश्यम्, न, अस्ति ॥ ४१ ॥
| उत्तरमेघः | २५९ |
|---|
व्याख्या— (हे प्रिये !) श्यामासु = प्रियंगुवल्लीषु, अङ्गम् = शरीरम्, चकितहरिणीप्रेक्षणे = भयभीतमृगीविलोकिने, दृष्टिपातम् = त्वन्नेत्र-क्रियाम्, शशिनि = चन्द्रमसि, वक्त्रच्छायाम् = त्वद्वदनकान्ति, शिखिनाम् = मयूराणाम्, बर्हभारेषु = पिच्छपुञ्जेषु, केशान् = अलकान्, प्रतनुषु = क्षीणासु, नदीवीचिषु = तटिनीतरङ्गेषु, भ्रूविलासान्, उत्पश्यामि = उत्प्रेक्षे ( किन्तु ) हन्त = इति विषादे, हे चण्डि = हे भामिनि, क्वचिदपि = कुत्रापि, एकस्मिन् = एकत्र, ते = तव, सादृश्यम् = साम्यम्, सर्वाङ्गीणतयेति शेषः, न = नहि, अस्ति = वर्तते ॥ ४१ ॥
शब्दार्थः— (हे प्रिये !) श्यामासु = प्रियंगुलताओं में, अङ्गम् = (तुम्हारे) शरीर की, चकितहरिणीप्रेक्षणे = भयभीतमृगी के देखने में, दृष्टिपातम् = तुम्हारे नेत्र व्यापार की, शशिनि = चन्द्रमा में, वक्त्रच्छायाम् = मुँह की शोभा की, शिखिनाम् = मयूरों के, बर्हभारेषु = पंखों के समूहों में, केशान् = बालों की, प्रतनुषु = पतली, नदी-वीचिषु = नदियों की तरङ्गों में, भ्रूविलासान् = तुम्हारे भौंहों के विभ्रम की; उत्पश्यामि = उत्प्रेक्षा ( सम्भावना या कल्पना ) किया करता हूँ, किन्तु हन्त ! = खेद है कि, हे चण्डि = हे भामिनि ! क्वचिदपि = कहीं भी, एकस्मिन् = एक जगह (सर्वाङ्गीण रूप से), ते = तुम्हारी, सादृश्यम् = समानता; न = नहीं, अस्ति = है ॥ ४१ ॥
भावार्थः— हे प्रिये ! प्रियंगुलतासु त्वदङ्गम्, त्रस्तमृगीविलोकिने दृष्टिपातम्, चन्द्रे वदनशोभाम्, मयूरपिच्छपुञ्जेष्वलकान्, क्षीणनदीतरङ्गेषु भ्रूविभ्रमास्तर्कयामि, किन्तु हन्त ! कुत्राप्येकस्मिन् साकल्येन त्वत्सादृश्यं नास्ति ॥ ४१ ॥
हिन्दी— हे प्रिये ! प्रियंगु लताओं में तुम्हारे शरीर की, भयभीत मृगी के देखने में तुम्हारे देखने की, चन्द्रमा में तुम्हारे मुँह की शोभा की, मोरों के पंखों के समूहों में तुम्हारे केशपाश की, पतली नदी की तरङ्गों में तुम्हारे भ्रूविलास की सम्भावना मैं किया करता हूँ, परन्तु खेद है कि कहीं भी एक जगह ( सम्पूर्ण रूप से ) तुम्हारी समानता नहीं है ॥ ४१ ॥
समासः— चकिताश्च ताः हरिण्यः = चकितहरिण्यः ( कर्मधारय० ) तासां प्रेक्षणम् = चकितहरिणीप्रेक्षणम् ( ष० तत्० ) तस्मिन् । वक्त्रस्य छाया =
२६० मेघदूतम्
वक्त्रच्छाया ( ष० तत्० ) ताम्। बर्हाणां भारः = बर्हभारः ( ष० तत्० ) तस्मिन्। प्रकृष्टाः तनवः = प्रतनवः ( कुगति प्रा० ) तेषु। नदीनां वीचयः = नदीवीचयः ( ष० तत्० ) तासु। भ्रुवो विलासाः = भ्रूविलासाः ( ष० तत्० ) तान्।
कोशः—श्यामा तु महिलाह्वया। लता गोविन्दनी गुन्द्रा प्रियङ्गुः फलिनी फली, इत्यमरः। चण्डस्त्वत्यन्तकोपनः, इत्यमरः। स्त्रियां वीचिरथोर्मिषु, इत्यमरः। हन्त ! हर्षेऽनुकम्पायां वाक्याऽऽरम्भविषादयोः, इत्यमरः। एकाकी त्वेक एककः, इत्यमरः।
टिप्पणी—यहाँ श्यामा का सादृश्य 'कोमलता' रूप समान धर्म के कारण किया गया है। भयभीत हरिणी के नेत्र का साम्य चाञ्चल्येन, चन्द्रमा की समानता आह्लादजनकत्वेन, मयूरों के पंखों का साम्य कृष्णत्वेन चिककण-त्वेन और नदी-तरङ्गों का साम्य भ्रूविलास में टेढ़ेपन के कारण किया गया। प्रेक्षण—'प्र' उपसर्गपूर्वक 'ईक्ष्' धातु से ल्युट् प्रत्यय करके 'प्रेक्षण' रूप निष्पन्न होता है। दृष्टि—'दृश्' धातु से 'क्तिन्' प्रत्यय करके 'दृष्टि' शब्द निष्पन्न होता है। वक्त्रच्छायाम्—यहाँ पूर्व पदार्थ वक्त्र का बाहुल्य अर्थात् अधिकता न होने के कारण 'छाया बाहुल्ये' इस सूत्र से 'इक्षुच्छा-याम्' के समान यह पद नपुंसकलिङ्गी नहीं हो सका। शिखिनाम्—शिखा अस्त्येषाम् इस विग्रह में 'शिखा' शब्द से 'अत इनिठनौ' सूत्र से 'इन्' प्रत्यय करके 'शिखिन्' शब्द निष्पन्न होता है, उक्त रूप षष्ठी विभक्ति के बहु-वचन का है। उत्पश्यामि—'उत्' उपसर्गपूर्वक 'दृश्' धातु के लट् लकार के प्रथम पुरुष के एकवचन का यह रूप है। चण्डि—'चडि' कोपे धातु के इदित होने के कारण 'इदितो नुम्धातोः' से नुम् करके णत्व आदि करके 'नन्दि-ग्रहिपचादिभ्यो ल्युणिन्यचः' इस सूत्र से 'अच्' प्रत्यय करके 'चण्ड' ऐसा शब्द बनाकर पश्चात् स्त्रीत्व की विवक्षा में 'बह्वादिभ्यश्च' इस सूत्र से 'ङीष्' प्रत्यय करके 'चण्डी' रूप बनता है, श्लोकगत पद सम्बोधन का है। कहीं-कहीं 'षिद्-गौरादिभ्यश्च' इस सूत्र से 'ङीष्' करना बतलाया गया है।
उत्तरमेघः २६१
पर 'गौरादि' गण में उक्त शब्द के न होने के कारण वह अनुपयुक्त है । अस्ति—यह सुप्रसिद्ध सत्ताथंक 'अस्' धातु के लट् लकार के प्रथम पुरुष के एकवचन का रूप है ।
अलङ्कारः—साहित्यदर्पण के—
"सदृशाऽनुभवाद्वस्तुस्मृतिः स्मरणमुच्यते" ।
इस लक्षण के अनुसार यहाँ 'स्मरण' अलङ्कार है । क्योंकि प्रिया के शरीर आदि के समान प्रियंगुलता आदि के अनुभव से ( कोमलता आदि समान धर्म के द्वारा ) प्रिया के शरीर आदि की स्मृति प्रकृत में वर्णित है ॥ ४१ ॥
त्वामालिख्य प्रणयकुपितां धातुरागैः शिलाया-
मात्मानं ते चरणपतितं यावदिच्छामि कर्तुम् ।
अस्त्रैस्तावन्मुहुरुपचितैर्दृष्टिरालुप्यते मे
क्रूरस्तस्मिन्नपि न सहते सङ्गमं नौ कृतान्तः ॥४२॥
अन्वयः—( हे प्रिये ! ) प्रणयकुपिताम्, त्वाम्, धातुरागैः, शिलायाम् आलिख्य, आत्मानम्, ते, चरणपतितम्, कर्तुम्, यावत्, इच्छामि, तावत्, मुहुः, उपचितैः, अस्रैः, मे, दृष्टिः, आलुप्यते । क्रूरः, कृतान्तः, तस्मिन्, अपि, नौ संगमम्, न, सहते ॥ ४२ ॥
व्याख्या—( हे प्रिये ! ) प्रणयकुपिताम् = रतिक्रुद्धां, न त्वपराधकुपितामिति भावः, त्वाम्=प्रेयसीम् त्वच्चित्रमितिभावः । धातुरागैः=गैरिकादिवर्णैः शिलायाम् = प्रस्तरपट्टे, आलिख्य = चित्रयित्वा, आत्मानम् = स्वम्, ते = तव चित्रस्थायाः इति भावः, चरणपतितम् = पादपतितम्, कर्तुम् = सम्पादयितुम्, चित्रितुमिति भावः, यावत् = यावत्समयम्, इच्छामि = अभिलषामि, तावत् = तत्कालाऽवधिम्, एवेति योज्यम्, मुहुः = अनेकशः, उपचितैः = प्रवृद्धैः, अस्रैः =नेत्रजलैः, मे=मम, दृष्टिः=नयनम्, आलुप्यते = आव्रियते, क्रूरः=निस्पृहः, कृतान्तः=विधिः, तस्मिन्नपि = चित्रेऽपि, नौ = आवयोः, संगमम् = सहवासम्, न सहते = न क्षमते ॥ ४२ ॥
२६२ मेघदूतम्
शब्दार्थः—( हे प्रिये ! ) प्रणयकुपिताम् = प्रेम में रूठी हुई, त्वाम् = तुमको (तुम्हारे चित्र को), धातुरागैः = गेरू आदि रंगों के द्वारा, शिलायाम् = पत्थर पर, आलिख्य = लिखकर, आत्मानम् = अपने को ( अपने चित्र को ) ते = तुम्हारे, चरणपतितम् = पैरों पर गिरा हुआ, कर्तुम् = चित्रित करना, यावत् = जबतक, इच्छामि = चाहता हूँ, तावत् = उसी समय, मुहुः = बार-बार प्रवृद्धैः = उमड़े हुए, अस्रैः = अश्रुओं से, मे = मेरी, दृष्टि = आँखें, आलुप्यते = डूब जाती हैं ( डब-डबा जाती हैं )। क्रूरः = कठोर, कृतान्तः = भाग्य, तस्मिन् = उस चित्र में, अपि = भी, नौ = हम दोनों का, संगमम् = मिलन, न सहते = नहीं सहता है ॥ ४२ ॥
भावार्थः— हे प्रिये ! प्रेमकुपितां त्वच्चित्रं गैरिकादिधातुवर्णैः प्रस्तरपट्टे विलिख्य स्वप्रतिकृतिं यावत् त्वच्चरणपतितां चित्रितुमिच्छामि तावदेव भूयो भूयः प्रवृद्धैरश्रुभिर्मम नेत्रमाव्रियते, निर्दयो विधिः चित्रेऽप्यावयोः सहवासं न क्षमते ॥ ४२ ॥
हिन्दी—( हे प्रिये ! ) प्रणय में कुपित तुम्हारे चित्र को गेरू आदि रंग से पत्थर पर लिखकर अपने चित्र को जब तक तुम्हारे पाँवों पर गिरा हुआ चित्रित करना चाहता हूँ, तभी बार-बार उमड़ते आंसुओं से मेरी आँखें डब-डबा जाती हैं। कठोर विधाता चित्र में भी हम दोनों के मिलन को नहीं सहन करता ॥ ४२ ॥
समासः— प्रणये कुपिता = प्रणयकुपिता ( स० तत्० ) ताम्, धातव एव रागाः = धातुरागाः (रूपक०) तैः । चरणयोः पतितः = चरणपतितः (स० तत्०) तम् । कृतः अन्तः येन सः कृतान्तः ( बहु० ) ।
कोशः— सारङ्गादौ च रागः स्यादातारुण्ये रञ्जने पुमान्, इति शब्दार्णवः । नृशंसो धातुकः क्रूरः, इत्यमरः । कृतान्तो यमसिद्धान्तदैवाकुशलकर्मसु, इत्यमरः । धातुर्वार्त्ताऽऽदिशब्दाऽऽदि गैरिकादिषु, इति यादवः ।
टिप्पणी—कुपिता—'कुप्' धातु से कर्ता में 'क्त' प्रत्यय करके इडादि करके स्त्रीत्व-विवक्षा में टाप् करके 'कुपिता' यह रूप बनता है। क्रोध दो प्रकार का होता है। एक तो ईर्ष्याजन्य क्रोध और दूसरा प्रणयकोप । रतिकाल में नायिका का बनावटी क्रोध रतिवर्धक ही होता है, यक्ष, उसी समय का स्मरण
उत्तरमेघः २६३
करके प्रिया का चित्र बनाना शुरू किया होगा। आलिख्य—‘आङ्’ उपसर्ग पूर्वक ‘लिख्’ धातु में ‘क्त्वा’ प्रत्यय करके उसके स्थान में ‘ल्यप्’ करके आलिख्य रूप बनता है। पतित—पतनार्थक ‘पत्’ धातु से कर्ता में ‘क्त’ प्रत्यय करके ‘पतित’ ऐसा रूप बनता है। नौ—‘अस्मद्’ शब्द के स्थान पर ‘युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयास्थयोर्वानावौ’ इस सूत्र से ‘नौ’ आदेश किया जाता है।
अलङ्कारः—इस पद्य में ‘अर्थापत्ति’ अलङ्कार है ॥ ४२ ॥
मामाकाशप्रणिहितभुजं निर्दयाश्लेषहेतो-
र्लब्धायास्ते कथमपि मया स्वप्नसन्दर्शनेषु ।
पश्यन्तीनां न खलु बहुशो न स्थलीदेवतानां
मुक्तास्थूलास्तरुविसलयेष्वश्रुलेशाः पतन्ति ॥४३॥
अन्वयः—( हे प्रिये ! ) स्वप्नसंदर्शनेषु, मया, कथमपि, लब्धायाः, ते, निर्दयाऽऽश्लेषहेतोः आकाशप्रणिहितभुजम्, माम् पश्यन्तीनाम्, स्थलीदेवतानाम्, मुक्तास्थूलाः अश्रुलेशाः, तरुकिसलयेषु, बहुशः, न, पतन्ति, न खलु ॥ ४३ ॥
व्याख्या — हे प्रिये ! ) स्वप्नसंदर्शनेषु = स्वप्नसाक्षात्कारेषु, मया = यक्षेण, कथमपि = केनापि प्रकारेण, लब्धायाः = प्राप्तायाः, ते = तव, निर्दयाऽऽश्लेषहेतोः = पुरुषाऽऽलिङ्गनार्थमितिभावः, आकाशप्रणिहितभुजम् = गगनप्रसारितबाहुम्, माम् = यक्षम्, पश्यन्तीनाम् = अवलोकयन्तीनाम्, स्थलीदेवतानाम् = अरण्यस्थलीदेवीनाम्, मुक्तास्थूलाः = मौक्तिकपीवराः, अश्रुलेशाः = अस्रबिन्दवः बाष्पकणा इत्यर्थः, तरुकिसलयेषु = वृक्षनवपल्लवेषु, बहुशः = भूरिशः, न पतन्ति = न स्खलन्ति, (इति) न = नहि, अपितु पतन्त्येव, खलु = निश्चयेन ॥ ४३ ॥
शब्दार्थः—(हे प्रिये !) स्वप्नसंदर्शनेषु = स्वप्न के देखने में, मया = मेरे द्वारा, कथमपि = किसी प्रकार से, लब्धायाः = प्राप्त, ते = तुम्हारे; निर्दयाऽऽश्लेषहेतोः = कठोर आलिङ्गन के लिए, आकाशप्रणिहितभुजम् = आकाश में फैलाये गये बाहुवाले, माम् = मुझको, पश्यन्तीनाम् = देखती हुई, स्थलीदेवतानाम् = वनदै-