भारतकोश
मेघदूतम् (वैद्यनाथ झा शास्त्री हिन्दी टीका सहित)

मेघदूतम् (वैद्यनाथ झा शास्त्री हिन्दी टीका सहित)

Meghadutam of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Meghadutam with Sanskrit text and Hindi Commentary by Pt. Vaidyanath Jha Shastri (उद्गम)

DevanagariHindipublished335 पृष्ठ

पृष्ठ 296, कुल 335 में से

संदर्भ में पढ़ें
पृष्ठ 296

उत्तरमेघः २५५

व्याख्या—( हे सुन्दरी ! ) दूरवर्ती = दूरस्थः, वैरिणा = विपरीतेन, विधिना = विधात्रा, रुद्धमार्गः = अवरुद्धवर्त्मा, ( तव प्रियः ) तनुना = कृशेन, गाढतप्तेन = अत्यन्तोष्णेन, सास्रेण = अश्रुसहितेन, उत्कण्ठितेन = उत्सुकेन, समधिकतरोच्छ्वासिना = प्रबलनिःश्वासिना, अङ्गेन = स्वावयवेन, प्रतनु = बहुकृशम्, तप्तम् = सन्तप्तम्, अस्रद्रुतम् = नयनजलार्द्रम्, अविरतोत्कण्ठम् = निरन्तरवेदनायुक्तम्, उष्णोच्छ्वासम् = उष्णनिःश्वासम्, अङ्गम् = त्वदवयवम्, तैः = पूर्वानुभूतैः, सङ्कल्पैः = मनोरथैः, विशति = प्रविशति ॥ ३९ ॥

शब्दार्थःदूरवर्ती = दूर देश में रहने वाला, वैरिणा = विपरीत, विधिना = भाग्य से, रुद्धमार्गः = रुके हुए मार्ग वाला, ( तुम्हारा प्रियतम ) तनुना = दुबले, गाढतप्तेन = अत्यन्ततापयुक्त, सास्रेण = आँसुओं से युक्त, उत्कण्ठितेन = उत्सुकतापूर्ण, समधिकतरोच्छ्वासिना = दीर्घनिःश्वास लेने वाले, अङ्गेन = ( अपने ) शरीर से, प्रतनु = अत्यधिक दुबले, तप्तम् = तापयुक्त, अस्रद्रुतम् = आसुओं से भींगे, अविरतोत्कण्ठम् = निरन्तर उत्कण्ठा ( वेदना ) युक्त, उष्णोच्छ्वासम् = गर्म-गर्म आहों वाले, अङ्गम् = (तुम्हारे) शरीर में, तैः = पहले के अनुभूत, सङ्कल्पैः = मनोरथों के साथ, विशति = प्रवेश करता है ॥ ३९ ॥

भावार्थः—हे अबले ! प्रतिकूलभाग्येनावरुद्धपथो दूरस्थस्त्वत्पतिः कृशेन संतप्तेनास्रपूर्णेनोत्कण्ठितेन दीर्घनिःश्वासयुक्तेन स्वशरीरेण कृशे संतप्तेऽश्रुक्लिन्ने उत्कण्ठिते दीर्घनिःश्वासयुक्ते त्वत्शरीरे पूर्वानुभूतैः मनोरथैः प्रविशति ॥ ३९ ॥

हिन्दी—हे अबले ! विपरीत भाग्य के कारण रुके हुए मार्ग वाला दूर देश में रहने वाला ( तुम्हारा पति ) अपने दुबले-पतले, संतप्त, अश्रुपूर्ण, वेदना से युक्त, लम्बी-लम्बी आहें भरने वाले शरीर से अत्यन्त दुबले, तापयुक्त, आंसुओं से भींगे, वेदनापूर्ण, लम्बी-लम्बी आहों से युक्त तुम्हारे शरीर में पहले के अनुभूत मनोरथों से प्रवेश करता है ॥ ३९ ॥

समासःदूरवर्ती—दूरे वर्त्तति शीलमस्य इति = दूरवर्ती (उपपद०) । रुद्धमार्गः—रुद्धो मार्गो यस्य सः 'रुद्धमार्गः ( बहु० ) । गाढं तप्तम् = गाढतप्तम् ( सुप्सुपा० ) तेन । अस्रेण सहितम् = सास्रम् ( तुल्य योग० ) तेन । सम्यक्

मेघदूतम् (वैद्यनाथ झा शास्त्री हिन्दी टीका सहित) · पृष्ठ 296, कुल 335 में से · BharatKosha